________________
उत्तरा० अवचूर्णिः
विनयाध्ययनम् १
| हसत्यवमेवेति(मनोति)वा तस्य शिरः सप्तधा स्फुटयति, यस्तु धूपस्तुत्यादिभिरभिनन्दति स सर्वामयैर्मुच्यते, राज्ञोक्तं-अनेनाप्यलं, तृतीयेनोक्तं-ममाप्येवंविधमेव भूतमस्ति, परं प्रियाऽप्रियकारिणं जनं दर्शनादेव रोगेभ्यो मोचयति, राज्ञोक्तं-एवं भवतु, तेन तथाकृतेऽशिवमुपशान्तं, ततो नृपादिजनैः पूजितः सः, एवं साधुरपि पूजानिन्दादिना प्रियाऽप्रियं सहेतेति, मनोगुप्यभिधानाच्चारित्रविनय उक्तः॥१४॥
क्रोधासत्यताकरणादेरात्मनो दमनोपाय उक्तः, तत्र च बाह्येष्वपि दमनीयेषु सत्सु किमिति तस्यैव दमनोपाय उद्दिश्यते ?, किंवा तद्दमने फलमिति ?, अत्रोच्यते__ अप्पामे(चे पा०)व दमेयव्यो, अप्पा हु खलु दुद्दमो । अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य ॥ १५ ॥
आत्मा दमयेद-इन्द्रियनोन्द्रियदमेनोपशमनं नयेत, आत्मैव दुर्दमस्तहमने दमिता एव बाह्यदमनीयाः, आत्मा दान्तः सुखी स्यादस्मिल्लोके परत्र च-परलोके, अत्रोदाहरणं-(१०५) | वापि पल्लयां द्वौ भ्रातरौ, तद्दत्तोपाश्रयेऽन्यदा साधवो वर्षारात्रं स्थिताः, तैः वर्षानन्तरं विहरद्भिस्तयोः किञ्चिदप्रपद्यमानयो रात्रिभुक्तिनियमो दत्तः, अन्यदा तावन्यैः सह धाय्यां गतौ बहुगोमहिषमानीतं, तत्र पथि केचिन्महिषं हत्वा पक्तुमारब्धाः, अन्ये मद्यार्थ पुरे गताः, ततो गोमाहिषलोभेन तैः परस्परं वधायात्मभागं त्यक्त्वा शेषमद्यमांसयोर्विषं क्षिप्तं, सर्वेऽप्येकत्र मिलिताः, तावता रविरस्तमितः, ततस्ती द्वौ नियमान भुक्तौ, अपरे विषमिश्रमद्यमांसाशनान्मृताः, कुगतिं प्रापुः, तो स्वस्थानं X गती, इह परत्र च सुखिनौ जातावित्यात्मा दान्तः सुखी स्यादिति ॥ १५ ॥
XOXOXOXOXOXOXOXXXXOXOX8)
आत्मदमनो
पदेशः
॥५
॥
Jain Eduara
For Privale & Personal use only
aureibrary