________________
।
कथं गुरुचित्तमनुगमनीयमित्याहनापुट्ठो वागरे किंचि, पुट्ठो वा नालियं वए । कोहं असचं कुब्बिज्जा, धारिजा पियमप्पियं ॥ १४ ॥ अपृष्टः, कथमिदमित्याद्यजल्पितो गुरुणेति गम्यते, व्यागृणीयात् - वदेत् किश्चित् तथाविधकारणं विना अल्पमपि, पृष्टो वा | नालीकं वदेत् , कारणान्तरे गुरुणा निर्भसितोऽपि क्रोधमसत्यं कुर्वीत-तदुत्थविकल्पविफलीकरणेन, मातृकुलपुत्रवदू ,(१०३)
यथा-कस्यापि कुलपुत्रकस्य भ्राता वैरिणा हतः, स मात्रोच्यते, पुत्र ! पुत्रघातकं घातयेति, ततस्तेन स वैरी जीवग्राही गृहीत्वा मातुः पार्श्व नीतो, भणितश्च तेन-भ्रातृघातक ! क हन्मीति ?, तेन भीतेनोक्तं-यत्र शरणागता हन्यन्ते, ततः स जननीं पश्यति, तया शरणागताः कापि न हन्यन्त इति निषिद्धः, तेनोक्तं कथं रोष सफलयामि ?, तया चोक्तं-वत्स! न सर्वत्र
X क्रोधासत्यरोषः सफलीक्रियते, ततः स सत्कृत्य मुक्त इति । धारयेन्मनसीति शेषः, इवाप्योर्गम्यत्वात् , प्रियमिवाऽप्रियमपि कर्णकटु- करणे कुल
तयाऽनिष्टमपि गुरुवच इति गम्यं, अत्र पूर्वार्द्धन वाचा यथा गुरुरनुवर्तनीयस्तथोक्तं, उत्तरार्द्धन तु मनसेति, यद्वा नापृष्ट इत्यादि पुत्रज्ञातम् * न गुरुणैव किन्तु येन केनापीति सामान्येन ज्ञेयं, नवरं प्रियं-प्रीत्युत्पादकं शेषजनापेक्षया स्तुत्यादि, अप्रियं तद्विपरीतं
निन्दादि, स्वरूपेण धारयेत्, न तद्वशतो राग द्वेषं वा कुर्यात् , अत्रोदाहरण (६०४)__ अशिवोपद्रुते कस्मिन्पुरे त्रयो भूतवादिनो वयमशिवं हरिष्याम इति नृपं वदन्ति, राज्ञोक्तं-केनोपायेन ?, तत्रैकेनोक्तं-मम ।
मन्त्रसिद्धं भूतं सुरूपमस्ति, तद्गोपुररथ्यादिषु भ्रमद्यः पश्यति स विनश्यति, यस्तु दृष्ट्वाऽधोमुखः स्यात्स सर्वरोगैर्मुच्यते, राज्ञोक्तम्1 अलं तेनाऽतिरोषणेन, द्वितीयेनोक्तं-मम भूतं महाकायं लम्बोदरं विवृतकुक्षिं पञ्चशीर्षमेकपादं विकृतरूपं अट्टहासं कुर्वत् दृष्ट्वा यो
mmmmmunommmmnamasoom
Fa3
Sain Educati
.jainelibrary.org
For Private & Personal Use Only
o
nal