________________
N
उत्तरा अवचूर्णिः
॥
४
॥
चन्द्ररुद्र
मा निषेधे, गल्यश्वः - अविनीताश्वः, स इव कशं-कशाप्रहारं वचनं-प्रवृत्तिनिवृत्तिविषयमुपदेशं, प्रस्तावाद्गुरूणामिच्छेत् । विनयाध्यवारंवारं, किन्तु कशं - चर्मयष्टिं दृष्ट्वा, इवस्य भिन्नक्रमत्वादाकीर्णो - विनीतः स चेहाश्वः स इव, सुशिष्यो गुरोराकारादिराराद् x यनम् १ दृष्ट्वा पापकमनुष्ठानं परिहरेदुपलक्षणत्वादितरच्चानुतिष्ठेदिति ॥१२॥ गल्याकीर्णतुल्यैर्गुरौ कोपप्रसादने अपि क्रियेते, अत आह
अणासवा(सुणा पा०)थूलवया, कुसीला मिउंपि चंडं पकरंति सीसा।
चित्ताणुया लहु दक्खोववेया, पसायए ते हु दुरासयंपि ॥१३॥ अनाश्रिता - वचस्यस्थिता, अणासुणेति पाठे स एवार्थः, स्थूलं - अनिपुणं यत्तद्भाषिततया वचो येषां ते, दुःशीलाः, मृदुमपि - अकोपनमपि, चण्डं - कोपिनं परुषभाषिणं च, प्रकुर्वन्ति विनेयाः, सम्भवति हि दुर्विनीतानुशासनाय पुनः पुनर्वचनात्मकं खेदमनुभवतो मृदोरपि गुरोः कोप इति, सुशिष्यगुणमाह-चित्तानुगाः- हृदयानुवर्तिनः, लघु-शीघ्रं, दक्षस्य भावो दाक्ष्यंअविलम्बितकारित्वं तेनोपपेता-युक्ताः प्रसादयेयुस्ते शिष्याः, तुः- पुनरर्थे, दुःखेनाश्रयन्ति तमतिकोपनत्वादिनेति दुराश्रयस्तमपि प्रक्रमाद्गुरुं, किं पुनरनुत्कटकषार्य इत्यपेरर्थः, चन्द्ररुद्रवत्-(१०२) । यथा-उज्जयिन्यां चन्द्ररुद्रसूरी रोषणप्रकृतिः साधुभ्यः पृथगासांचक्रे, मा भूत्कोपोत्पत्तिरिति, इतश्चेभ्यसुतो नवपरिणीतः साधून्ववन्दे, तन्मित्रैः केल्योक्तं -प्रावाजयतामुं, एष शठ इति तैर्गुरुर्दर्शितः, गुरुणोतं-भूतिमानय, कृतो लोचः, विषादो
ला॥४॥ * मित्राणां, दीक्षितेनोक्तं, केलिः सत्यीभूता, अन्यत्र गम्यते, गुरुराह, रात्रौ न पश्यामि, स्कन्धारोपणं, शिरसि दण्डेन ताडनं,
हा महात्माऽयमवस्था प्रापित इति भावयतः केवलज्ञानं, ज्ञात्वा गुरोरपि पश्चात्तापेन क्षामणया च केवलमिति ॥ १३ ॥
कथr
ainelibrary.org
Jain Educati
o nal
For Private & Personal Use Only