________________
जातौ भवं-चाण्डालिक कर्म, अथवा चण्ड! सौम्यालीकं गुरुवचनं, भगवदुद्दिष्टतिलोत्पाटकस्वेच्छालापिगोशालकवत् आगममिवेति गम्यते, कार्षीः-विधाः, बहुक - आलजालरूपमपरिमितं मा च आलपेत् बह्वालापनाद्ध्यानाध्ययनक्षितिवातक्षोभादिसम्भवात् , किं कुर्यादित्याह-प्रथमपौरुष्यादिलक्षणेन, चः पुनरर्थे, अधीत्य, प्रच्छनाद्युपलक्षणमेतत् , अध्ययनानन्तरं ध्यायेत्-चिन्तयेत्, | एकक इति भावतो रागादिरहितो, द्रव्यतस्तु विविक्तशय्यादिसंस्थः, इत्थं हि चण्डालीककरणाद्यनुत्थानं, अधीतार्थस्थिरीकरणं, अत्र च पादत्रयेण वाग्गुप्तिरुक्ता, ध्यायेदिति मनोगुप्तिः, आद्यपादपाठान्तरव्याख्याद्वयेन तु कायगुप्तिरपि, एताश्चारित्रान्तर्गता एवेति देशतश्चारित्रविनयाभिधानम् ॥ १०॥
इत्थमकृत्यनिषेधं कृत्यविधि चोपदिश्य एतद्विपर्यये यत्कृत्यं तदाह
आहच्च चंडालियं कटु, न निन्हविज कण्हुइ । कडं कडत्ति भासिज्जा, अकडं नो कडत्ति य ॥११॥ आहत्य-कदाचित् , चण्डालीकं चाण्डालिकं च उक्तरूपं कृत्वा न निहवीत-न कृतमेवेति नालपेत् , कदाचिदपि, यदा परैख़तोऽज्ञातो वा तदापीत्यर्थः, किं तर्हि कुर्यादित्याह, कृतं चण्डालीकादि तु कृतमिति, अयमर्थः-भाषेत, न च भयलज्जादिभिरकृतमिति, अकृतं यत्तदेव नो कृतमित्यकृतमेव भाषेत, न तु मोहादिना कृतमिति, अयमर्थः-कथश्चिदतिचारसम्भवेऽपि परैः प्रतीतमप्रतीतं वा मनःशल्यमालोचयेत् , अनेनान्तरतप आलोचनाख्यमुक्तं, अस्य च शेषतपसामुपलक्षणात्तपसो विनयमाहेति ॥११॥
यदैव गुरूपदेशस्तदैव प्रवर्तितव्यं चेति, नान्यथेति शङ्कापनोदायाहमा गलियस्सेव कसं, वयणमिच्छे पुणो पुणो । कसं व दट्टुमाइण्णे, पावगं परि(प्र० डि)वज्ज(प्र० इ)ए ॥ १२ ॥
कर्तव्योपदेशः
DXOXOXOXXX
anEducation
For Private & Personal use only