________________
अपरं च
नो सक्रियमिच्छई न पूअं, नोवि य वंदणगं कुओ पसंसं ?।
से संजए सुब्बए तवस्सी, सहिए आयगवेसए स भिक्खू ॥ ४९८ ॥ नैव सत्कृतं-सत्कारं अभ्युत्थानानुगमनादिरूपं इच्छति-अभिलपति, प्राकृतत्वाद्दीर्घनिर्देशः, नैव पूजां वस्त्रपात्रादिभिः, नैव च वन्दनक-द्वादशावादिरूपं, कुतः प्रशंसां-निजगुणोत्कीर्तनरूपां ?, नैवेच्छतीत्यभिप्रायः, स एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः, तत एव सुव्रतः, सुव्रतत्वाच्च तपस्वी-प्रशस्यतपा, तथा च सहितः सम्यग्ज्ञानक्रियाभ्यां अत एव आत्मानं कर्मविगमात् शुद्धस्वरूपं गवेषयति, कथमित्थम्भूतो भवेदिति अन्वेषयते यः स आत्मगवेषकः, यद्वा अयं-सम्यग्दर्शनादिलाभं गवेषयतीत्यायगवेषकः यः स भिक्षुः, अनेन सत्कारपुरस्कारपरीषहसहनमुक्तम् ॥ ५॥ ४९८॥
जेण पुणो जहाइ जीवियं, मोहं वा कसिणं नियच्छई।
नरनारिं पहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ॥ ४९९ ॥ का येन हेतुना पुनः शब्दोऽस्य सर्वथा संयमप्राप्तित्वविशेषद्योतकः जहाति-त्यजति संयमजीवितं मोहं वा कषायनोकषायादिरूपं
मोहनीयं कृत्स्नं कृष्णं वा शुद्धाशयविनाशकतया, नियच्छति-बध्नाति, तदेवंविधं नरश्च नारी च नरनारि प्रजह्यात्-प्रकर्षण
त्यजेत् यः सदा तपस्वी, न च कुतूहलं-अभुक्तभोगतायां ख्यादिविषयं कौतुकं-उपलक्षणत्वात् भुक्तभोगतायां स्मृतिं च उपैतिउत्तरा०२१X गच्छति स भिक्षुः, अनेन स्त्रीपरीषहसहनमुक्तम् ॥ ६॥ ४९९ ॥
सत्कारपुरकारखीपरीपहसहनम्
6XXXX***
in Educat
For Private & Personal use only