________________
तच्च सिंहतया विहरणं यथा स्यात्तथाह
राओवरयं चरिज लाढे, विरए वेदवियाऽऽयरक्खिए।
पन्ने अभिभूय सवदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥ ४९५ ।। रागः-अभिष्वङ्गः, उपरतः-निवृत्तो यस्मिंस्तद्रागोपरतं यथा स्यादेवं चरेत्-विहरेत् , अनेन मैथुननिवृत्तिरुक्ता, रागाविनाभावित्वान्मैथुनस्य, यद्वा राज्युपरतं चरेत्-भक्षयेत् , अनेन रात्रिभोजननिवृत्तिरप्युक्ता, लाढः-सदनुष्ठानतया प्रधानः विरतः-19 असंयमान्निवृत्तः, अनेन च संयमस्याक्षेपात् प्राणातिपातनिवृत्तिः सावधवचननिवृत्तिरूपत्वाद्वा संयमस्य मृषावादनिवृत्तिश्चोक्ता, विद्यते अनेन तत्त्वमिति वेदः-सिद्धान्तस्तस्य वेदनं-वित् तयाऽऽत्मा रक्षितो दुर्गतिपतनादनेनेति वेदविदात्मरक्षितः, यद्वाः वेदं साधोः * वेत्तीति वेदवित् तया रक्षिता आयाः-सम्यग्दर्शनादिलाभा येन स रक्षितायः, रक्षितशब्दस्य परनिपातः प्राकृतत्वात् , प्राज्ञो-16 सिंहत्वम्
हेयोपादेयबुद्धिमान् , अभिभूय-पराजित्य, परीपहोपसर्गानिति गम्यं, सर्व गम्यमानत्वात्प्राणिगणं पश्यत्यात्मवत् इत्येवं शीलः सर्वदर्शी, यद्वा अभिभूय रागद्वेषौ सर्व सरसविरसमाहारं, दशति-भक्षयतीत्येवंशीलः सर्वदंशी, उक्तं च-"पडिग्गहं संलिहिताण" मित्यादि, अत एव यः कस्मिंश्चित्सचित्तादिवस्तुनि न मूञ्छितः-प्रतिबद्धः, एतेन परिग्रहनिवृत्तिरुक्ता, मूञ्छितश्च कथमदत्तमाददीत इत्यदत्तादाननिवृत्तिश्च, तथा य एवं मूलगुणान्वितः स भिक्षुः ॥२॥ ४९५ ॥ अन्यच्च
अकोसवहं विदित्तु धीरे, मुणी चरे लाढे निच्चमायगुत्ते । अबग्गमाणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥ ४९६ ॥
Jain Educati
o
nal
For Privale & Personal use only
P
Ujainelibrary.org