SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अव चूर्णिः ॥ अथ पञ्चदशं सभिक्षुकमध्ययनम् ॥ सभिक्षुकमध्ययनम् ॥११९॥ भिक्षुगुणाः अनन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतो भिक्षोरेव स्याद् , भिक्षुश्च गुणत इति तद्गुणा अनेनोच्यते, मोणं चरिस्सामि समिच्च धम्मं, सहिए उजुकडे नियाणछिन्ने । संथूवं जहिज अकामकामे, अन्नायएसी परिवए स भिक्खू ॥ ४९४ ॥ अस्य च भिक्षुनाम, मुनेः कर्म मौनं-सम्यग्चारित्रं चरिष्यामि-आसेविष्ये इत्यभिप्रायेणेत्युपस्कारः, समेत्य-प्राप्य धर्मदीक्षारूपं सहितः सम्यग्दर्शनादिभिरन्यसाधुभिर्वा, न त्वेकाकी, स्वस्मै हितः स्वहितो वा सदनुष्ठानकारणाद् ऋजुः संयमस्तत्प्रधान |ऋजु वा-मायात्यागतः कृतं अनुष्ठानमस्येति ऋजुकृतः, निदानं-विषयाभिष्वङ्गात्मकं प्राणातिपातादिकर्मबन्धकारणं छिन्नं अप| नीतं येन स छिन्ननिदानः कांतस्य परनिपातः छिन्ननिदानो वा-अप्रमत्तसंयत इत्यर्थः, संस्तवं-पूर्वसंस्तुतैर्मात्रादिभिः पश्चात्संस्तुतैः श्वश्वादिभिः परिचयं जह्यात्-त्यजेत् , न कामान् इच्छामदनादिभेदान् कामयते-प्रार्थयते इति अकामकामः, यद्वा अकामो-X मोक्षस्तत्र सकलाभिलाषनिवृत्तेस्तं कामयते यः स तथा, अज्ञातः-तपस्वितादिभिर्गुणैरनवगत एषयते ग्रासादिकमित्येवंशील अज्ञातैषी, परिव्रजेद्-अनियतविहारितया विहरेत् , यत्तदोर्नित्याभिसम्बन्धाद्य एवंविधः सः भिनत्ति-विदारयति, क्षुद्रं-अष्टप्रकार कर्मेति भिक्षुः, अनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुत्वनिबन्धनमुक्तम् ॥ १॥ ४९४॥ ॥११९॥ XXXXX Jain Education Y onal For Private & Personal use only www.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy