________________
सुखहेतुत्वात् किममी त्यजन्त इत्याह-सामिषं-मांससहितं कुललं-गृधं शकुनिकां वा दृष्ट्वा बद्ध्यमानं-पीड्यमानं, पक्ष्यन्तरैरिति शेषः, निरामिषं-पिशितविरहितं अन्यथाभूतं च दृष्ट्रेति गम्यं, अभिष-अभिष्वङ्गहेतुं धनधान्यादि, सर्व-निरवशेष उज्झित्वात्यक्त्वा विहरिष्यामि-अप्रतिवद्धविहारितया-चरिष्यामि, निरामिपा-परित्यक्ताभिष्वङ्गहेतुः, उक्तानुवादेनोपदिष्टुमाह-गृध्रोपमा
नुक्तन्यायेन, तुः समुच्चये भिन्नक्रमश्च योक्ष्यते, ज्ञात्वा, णं वाक्यालङ्कारे, कान् ?-प्रक्रमाद्विषयामिषवतो लोकान् , कामांश्च* विषयांश्च संसारवर्द्धनान्-संसारवृद्धिहेतून् , ज्ञात्वेति योगः, ततः किमित्याह-इवस्य भिन्नक्रमत्वादुरग इव-सर्प इव सौपर्णेयपाधै-* गरुडसमीपे शङ्कमानो-भयत्रस्तः, तनुस्तोकं मन्दयतनयेति यावक्रियासु चरेः-प्रवर्तस्व, अयमर्थः यथा सौपर्णेयोपमैर्विषयैर्न
नृपस्य प्रव्रवाध्यसे तथा संयमं आसेवस्व, ततश्च किमित्याह-नाग इव-गज इव बन्धनं छित्त्वा आत्मनो वसतिं व्रजेः, अयमाशयो-यथा | नागो बन्धनं-वरत्रं छित्त्वा आत्मनो वसति-विन्ध्याटवीं ब्रजति, एवं भवानपि कर्मबन्धनं छित्त्वा आत्मनो वसतिं-कर्मविगमतःX
बोधनम् शुद्धो यत्रात्मा अवतिष्ठते सा च मुक्तिरेव तां ब्रजेः, अनेन प्रसङ्गतो दीक्षायाः फलमुक्तं, इत्थमुपदिश्य निगमयति, एतन् | मयोक्तं पथ्यं-हितं हे महाराज ! प्रशस्यभूपते ! इषुकारनामन् एतन्न स्वबुद्ध्यैवोच्यते किंतु इतीत्येतन् मया श्रुतं साधुसकाशादिति गम्यम् ॥ ४१-४८॥ ४८१-४८८॥
एवं च तद्वचनमाकर्ण्य प्रतिबुद्धो नृपः, ततश्च यत्ता चक्रतुस्तदाहचइत्ता विउलं रज्ज(१ पा०), कामभोगे अ दुच्चए । निविसया निरामिसा, निन्नेहा निप्परिग्गहा ॥ ४८९॥ सम्मं धम्मं वियाणित्ता, चिचा कामगुणे चरे। तवं पगिज्झऽहक्खायं, घोरं घोरपरकमा!॥ ४९०॥
Jain Education
ona
For Private & Personal use only
Mainelibrary.org