SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ इषुकारीयाध्ययनम् KOHOTO-Ko उत्तरा०त्याह-ब्राह्मणेन परित्यक्तं धनमादातुं-ग्रहीतुमिच्छसि, नैव भवत एतदुचितं, यतस्त्वमप्येवं वान्ताशितया अश्लाघ्य एव भवि- अवचूर्णिः प्यसि, किं च-सर्व-निरवशेषं जगत्-भुवनं भवेदिति शेषः, यदि कथञ्चित् ततः सर्व चापि धनं-रजतादि द्रव्यं भवेत् , यदि तवेतीहापि योज्यते, सर्वमपि ते अपर्याप्तं-अशक्तं, इच्छापूरणं प्रतीति शेषः, तस्या आकाशसमत्वेनोक्तत्वात् , तथा नैव ॥११६॥ त्राणाय-जरामरणाद्यापदपनोदाय तत्सर्वं जगद्धनं वा तव, इह च पुनः पुनः सर्वशब्दस्य युष्मदस्मदोश्चोपादानं भिन्नवाक्यत्वादपुनरुक्तं, पूर्वेण गर्हितत्वमनेन चानुपकारितां पुरोहितधनाद्यग्रहणहेतुमादर्य सम्प्रत्यनित्यतां तद्धेतुमाह-मरिष्यसि राजन् ! यदा तदा वा-यस्मिंस्तस्मिन् वा काले, अवश्यमेव मर्त्तव्यं, “जातस्य हि ध्रुवं मृत्युः,” उक्तं च “कश्चित्तावत् त्वया दृष्टः, श्रुतो वा शङ्कितोऽपि वा। क्षितौ वा यदिवा स्वर्गे, यो जातो न मरिष्यति ॥१॥ तथापि किञ्चिदादायैव मरिष्याति इत्यत आह- मनोरमान् चित्तालादकान् कामगुणान् प्रहाय-प्रकर्षेण त्यक्त्वा, त्वमेकाक्येव मरिष्यसि, न किञ्चिदन्यत्त्वया सह यास्यतीति- भावः, तथा एक एव-अद्वितीय एव धर्मः-सम्यग्दर्शनादिरूपः, हे नरदेव-नृप !, त्राणं-शरणं परिरक्षणक्षम, न विद्यते-नास्ति, | अन्यत्-अपरं इहलोके, इहास्मिन् मृत्यौ किञ्चित्स्वजनधनादिकं, धर्म एवैकस्त्राणं मुक्तिहेतुत्वेन, नान्यत्किञ्चिद् अतः स एवानुष्ठेय इति भावः ॥ ३७-४०॥ ४७७-४८०॥ यस्माद्धर्माहते नान्यत्त्राणमतो-नाहं रमे इत्यादि गाथाष्टकं, नाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिसामि मोणं । अकिंचणा उजुकडा निरामिसा, परिग्गहारंभनियत्तऽदोसा ॥ ४८१ ॥ नृपस्य प्रव्रज्याप्रति नृपबोधनम् XOXOXOXo KOKOKAKK ॥ ११६॥ Jain Education K For Privale & Personal use only " nelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy