________________
इषुकारीयाध्ययनम्
१४
उत्तरा०*गृद्धिहेतुत्वात् , कामगुणविशेषणं वा अग्र्या रसास्त एव शृंगारादयो वा येषु ते तथा, भुञ्जीमहि यस्मादमी सुसम्भृतादि अवचूर्णिः विशेषणविशिष्टास्तव स्वाधीनाः सन्ति, तस्मात् कामगुणान् प्रकाम-अतिशयेन पश्चाद्वद्धत्वे गमिष्यामः-प्रतिपत्स्यामहे,
प्रधानमार्ग-महापुरुषसेवितं प्रव्रज्यारूपं मुक्तिपथम् ॥ ३१॥ ४७१॥ ॥११४॥
भृगुः प्राह
भुत्ता रसा भोइ ! जहाइ णो वओ, न जीवियहा पजहामि भोए।
लाभ अलाभं च सुहं च दुक्खं, संचिक्खमाणो चरिस्सामि मोणं ॥ ४७२॥ भुक्ताः-सेविताः रसाः--मधुरादयः, उपलक्षणत्वात् शेषकामगुणाश्च, हे भवति ! जहाति-त्यजति न:-अस्मान् वयः प्रक्रमादिष्टक्रियाकरणक्षम, उपलक्षणत्वात् जीवितं च, ततो यावन्नैतत्त्यजति तावत्प्रव्रजाम इत्यभिप्रायः, तत्किं वयःस्थैर्याद्यर्थ दीक्षार्थी, उच्यते हि कैश्चिद् 'दीक्षा वयःस्थैर्यविधायिनी'त्याशङ्कयाह-न-निषेधे, जीवितं-असंयमजीवितमुपलक्षणत्वात् वयश्च तदर्थ प्रजहामि-प्रकर्वेण त्यजामि भोगान् , किंतु लाभ-इष्टवस्तुप्राप्तिरूपमलाभं च-तदभावरूपं सुख-इष्टविषयसम्भोगजं चस्य भिन्नक्रमत्वात् दुःखं च-बाधात्मकं समतया ईक्षमाणः-पश्यन् , अयमों-लाभालाभयोस्तथा सुखदुःखयोः उपलक्षणत्वाद् जीवितमरणादीनां च समतामेव भावयंश्चरिष्यामि-आसेविष्ये मौनं-मुनिभावं, ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरितिभावः ॥ ३२ ॥ ४७२ ॥
ब्राह्मणी प्रति भृगोर्वचनं
KeAKE
H॥११४॥
Jain Education in
For Privale & Personal use only
Palamelibrary.org