SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ गाथाद्वयं, सूत्रे पूर्वापरनिपातस्यातन्त्रत्वात्पुत्राभ्यां प्रहीणः-त्यक्तः पुत्रप्रहीणस्तस्य, हुः-पूरणे, नास्ति वासः-अवस्थानं, मम गृहे इति गम्यं, हे वासिष्ठगोत्रे! भिक्षाचर्यायाः-भिक्षाटनस्य, एतदुपलक्षणत्वाद् व्रतग्रहणस्य काल:-प्रस्तावो, वर्तत इति शेषः, किमित्येवं यतः शाखाभिः वृक्षः लभते-प्राप्नोति समाधि-स्वास्थ्यं, छिन्नाभिः शाखाभिः तमेव वृक्षं यस्ताभिः समाधिमवाप्तवान् स्थाणुं जनो व्यपदिशतीत्युपस्कारः, यथा हि तास्तस्य शोभासंरक्षणसहायकरणादिना समाधिहेतवः, एवं ममाप्येतौ सुतौ, अतस्तद्विरहे अहमपि स्थाणुकल्प एवेति किमेवंविधस्य मे गृहवासेनेतिभावः, किं च-पक्षाभ्यां-पतन्त्राभ्यां विहीनो-विरहितः पक्षविहीनः, वा दृष्टान्तान्तरसमुच्चये, यथेह लोके पक्षी-विहङ्गमः, मार्जारादिभिरभिभूयते, तथा भृत्याः-पदातयस्तद्विहीनो वा प्राग्वत् , रणे नरेन्द्रः शत्रुजनपराजयस्थानमेव जायते, तथा विपन्नो-विनष्टः सारो-हिरण्यादिवस्तुरस्येति विपन्नसारः वणिक् वा प्राग्वत् , पोते-प्रवहणे भिन्ने इति गम्यं, नार्वाग्-न च परत इति, उदधिमध्यवती विषीदति, पुत्रविहीनोऽस्मि तथा अहमपि, कोऽर्थः १, पक्षभृत्यार्थसारभूताभ्यां पुत्राभ्यां विरहितोऽहमप्येवंविध एव ॥ २९-३० ॥ ४६९-४७० ॥ सुसंभिया कामगुणा इमे ते, संपिंडिया अग्गरसा पभूया। भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामु पहाणमग्गं ॥ ४७१ ॥ सुसम्भृताः-अतिशयेन संस्कृताः कामगुणाः-गीतशब्दादयः, इमे स्वगृहवर्तितया प्रत्यक्षतया सम्पिण्डिताः-सम्यगपुञ्जीकृताः, चस्य गम्यमानत्वात् अय्यरसाश्च-प्रधानमधुरादयश्च प्रभूताः-प्रचुराः, कामगुणान्तर्गतत्वेऽपि प्रथमग्रहणं रसानामति ब्राह्मणी प्रति भृगोर्वचनं ब्राह्मणीवचनं च XEXXE. XXE Sain Education For Private & Personal use only nelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy