________________
भावः । इत्थं व्यतिरेकद्वारेण प्रव्रज्याप्रतिपत्तिहेतुमभिधाय तमेवान्वयमुखेनाह-जा जेत्यादि पूर्ववत् , नवरं चः-पुनरर्थे, ततो धर्म पुनः कुर्वतः प्राणिनः सफला धर्मरूपफलोपार्जनतो यान्ति रात्रयो, न च व्रतप्रतिपत्तिं विना धर्मोऽतो व्रतं प्रतिपत्स्यावहे आवामित्यभिप्राय इति गाथाद्वयार्थः॥२४-२५॥ ४६४-४६५॥
इत्थं कुमारवचनादाविर्भूतसम्यक्त्वस्तद्वचनमेव पुरस्कुर्वन् भृगुराहएगओ संवसित्ता णं, दुहओ संमत्तसंजुया । पच्छा जाया ! गमिस्सामो, भिक्खमाणा कुले कुले ॥ ४६६ ॥
एकतः-एकस्मिन् स्थाने समुष्य-सहैवासित्वा द्वयं च द्वयं च द्वये-आवां युवां च, व्यक्त्यपेक्षया बहुवचनं, पुरुषप्राधान्याच्च * पुलिंगता, सम्यक्त्वेन संयुताः-सहिता उपलक्षणत्वाद्देशविरत्या च संयुताः, पश्चाद्-यौवनोत्तरकालं, वृद्धत्वे इत्यर्थः, हे जाती
गमिष्यामो-वजिष्यामो वयं ग्रामनगरादिषु मासकल्पादिक्रमेणेति शेषः, अर्थाच्च प्रव्रज्यां प्रतिपद्य भिक्ष्यमाणा-याचमानाः का पिण्डादिकमिति गम्यते, कुले कुले-गृहे गृहे, न त्वेकस्मिन्नेव गृहे, किमुक्तं भवति ?, अज्ञातोञ्छवृत्त्येत्यर्थः॥ २६ ॥ ४६६ ॥
कुमरावाहतुःजस्सास्थि सचुणा सक्खं, जस्स चाथि पलायणं । जो जाणइ न मरिस्लामि, सो हु कंखे सुए सिया ॥ ४६७ ॥
अजेव धम्म पडिवजयामो, जहिं पवना न पुणब्भवामो। अणागयं नेव य अस्थि किंची, सद्धाखमं नो विणइत्तु रागं ॥ ४६८॥
साधुत्वे
OXOXOXEKKET228
ऽज्ञातोछवृत्तिता
Jain Educatioo
nebrar og
For Private & Personal Use Only
tione