________________
XOXOXOXOXOXOXOXOXOXOXOXOXO
तथा संसार:-चतुर्गतिभ्रमणरूपस्तद्धेतु-तत्कारणं च वदन्ति बन्धमिति-कर्मबन्धं, अनेनामूर्त्तत्वाद्योम्न इव निष्क्रियत्वमपि निराकृतमिति ॥ १८-१९ ॥ ४५८-४५९ ॥ यत एवमस्त्यात्मा नित्योऽत एव भवान्तरानुयायी तस्य च-बंधादेव मोक्ष इत्यतः
जहा वयं धम्ममजाणमाणा, पावं पुरा कम्ममकासि मोहा।
ओरुज्झमाणा परिरक्खयंता, तं णेव भुजोऽवि समायरामो ॥ ४६॥ यथा-येन प्रकारेण वयं धर्म-सम्यग्दर्शनादिकं अजानाना-अनवबुध्यमानाः पापं-पापहेतुः पुरा-पूर्व कर्म-क्रिया अकार्म:कृतवन्तः मोहात्-तत्त्वानवबोधात् , अवरुध्यमाना-गृहान्निर्गममलभमानाः परिरक्ष्यमाणा:-अनुजीविभिः अनुपाल्यमानाः, तत्पापकर्म नैव भूयोऽपि-पुनरपि समाचरामः-अनुतिष्ठामः, सूत्रत्वात् द्वित्वेऽपि बहुवचनं सर्वत्र, सम्प्रत्युपलब्धमेवास्माभिर्वस्तु- तत्त्वमिति ॥२०॥ ४६०॥
अन्यच्चअभाहयंमि लोगंमि, सवओ परिवारिए । अमोहाहिं पड़तीहि, गिहंसि न रई लभे॥ ४६१ ॥
अभ्याहते-अभिमुख्येन पीडिते लोके-जने सर्वतः-सर्वासु दिक्षु परिवारिते-परिवेष्टिते अमोघाभिः-अवन्ध्यप्रहरणोपमाभिः | पतन्तीभिः-आगच्छन्तीभिः, गृहे-गृहवासे न रति-आसक्तिं लभावहे, यथाहि-वागुरायां परिवेष्टितो मृगोऽमोघैश्च शास्त्रा
नाहतो न रतिं लभते एवमावामपीति भावः ॥२१॥४६१॥
द्वन्धः तस्माद्गृहेऽरतिः
Sain Education
oral
For Privale & Personal Use Only
diainelibrary.org