________________
उत्तरा०
अवचूर्णिः
॥ १११ ॥
Jain Education I
चस्य - अवधारणार्थत्वात् यथैव अग्निः अरणितोऽग्निमंथनकाष्ठात् असन्- अविद्यमान एव सम्मूर्च्छति, तथा क्षीरे घृतं, इषुकारीयातैलं अथ तिलेषु, एवमेव हे जाती- पुत्रौ ! शरीरे सत्त्वाः- प्राणिनः सम्मूर्च्छन्ति - पूर्वमसंत एव शरीराकारपरिणतभूतसमुदायत उत्पद्यन्ते, नश्यन्ति अभ्रपटलवत् प्रलयमुपयान्ति न पुनरवतिष्ठन्ते - वपुर्विनाशे क्षणमप्यवस्थितिभाजो भवन्ति, यद्वा-शरीरे सत्यप्यमी सत्त्वा नश्यन्ति - नावतिष्ठन्ते जले बुद्बुदवत् उक्तं हि - " जलबुडुदवज्जीवाः, " अत्र च प्रत्यक्षतोऽनुपलम्भ एव प्रमाणं, न ह्यसौ शरीरे शरीरव्यतिरिक्तो वा भवान्तरप्राप्तौ प्रत्यक्षत उपलभ्यते इति नास्ति, शशविपाणवदिति भावः ॥ ४५८ ॥ तावाहतुः - तो निषेधे इन्द्रियैः - श्रोत्रादिभिः ग्राह्यः - संवेद्य इंद्रियग्राह्यः प्रक्रमादात्मा, अमूर्त्तभावा - इंद्रियग्राह्यरूपाद्यभावात् पिशाचादिवत्, न चादृश्यत्वादेव अघटभूतले घटवत् सर्वथा तदभाव एव शङ्कयः, तत्साधकस्यानुमानस्य सद्भावाद् - अस्त्यात्मा, अहं पश्यामि, अहं जिघामि इत्याद्यनुगतप्रत्ययान्यथानुपपत्तेरित्यादिरूपस्य सद्भावात्, अमूर्त्तभावादपि च भवति नित्यः तथाहि - यद्रव्यत्वे सति अमूर्तं तन्नित्यं यथा व्योम, अमूर्तश्चायं द्रव्यत्वे सति, अनेन विनाशानवस्थाने प्रत्युक्ते, न चैवममूर्त्तत्वादेव तस्य बन्धासम्भवः सम्भवे वा सर्वस्य सर्वदा तत्प्रसङ्ग इति वाच्यं, यतः अध्यात्मशब्देन आत्मस्था मिथ्यात्वादय इहोच्यन्ते, ततस्तद्धेतुः - तन्निमित्तो नियतो निश्चितो न सन्दिग्धो जगद्वैचित्र्यान्यथानुपत्तेरस्यात्मनो बन्धः - कर्मभिः संश्लेषः, यथा ह्यमूर्त्तस्यापि नभसो घटादिभिः सम्बन्ध एवमस्यास्त्यमूर्त्तस्यापि मूतैरपि कर्मभिरसौ न विरुध्यते, तथा चाह - "अरूपं हि यथाssकाशं, रूपिद्रव्यादिभजनं । " इति मिथ्यात्वादिहेतुत्वाच्च न सर्वदा तत्प्रसङ्ग इत्यदोषः, एवं हि येषामेव मिध्यात्वादि तद्धेतुसम्भवस्तेषामेवासौ न पुनस्तद्विरक्तानां सिद्धानामपि,
*OXXX*****
For Private & Personal Use Only
ध्ययनम्
१४
काष्ठादितो म्यादिवत् संसाराद्बन्धः
॥ १११ ॥
cinelibrary.org