________________
XXXXXX
*OXXXXBFXXXXXXX
एवं च ताभ्यामुक्ते
अह तायओ तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासी। इमं वयं वेयविओ वयंति, जहा न होई असुयाण लोगो ॥ ४४८॥ अहिज वेए परिविस्स विप्पे, पुत्ते परिठप्प गिहंसि जाया (ए पा०)।
भुच्चा ण भोगे सह इत्थियाहिं, आरण्णगा होह मुणी पसत्था ॥ ४४९ ॥ गाथाद्वयं, अथ-अनन्तरं तात एव तातकः, तत्रावसरे मुन्योः-प्रतिपन्नमुनिभावयोः कुमारयोः तपस उपलक्षणत्वाच्छेषधर्मानुष्ठानस्य च, व्याघातकरं-बाधाविधायि, वचनमिति शेषः, अवादीत्, यदवादीत्तदाह-यथा इमां वाचं वेदविदो वदन्ति, यथा-न भवति असुतानां-अविद्यमानपुत्राणां लोकः-परलोकः, तं विना पिण्डप्रदानाद्यभावे गत्याद्यभावात् , तथा च वेदवचः "अनपत्यस्य लोका न सन्ति,” तथा अन्यैरप्युक्तं-"पुत्रेण जायते लोकः, इत्येषा वैदिकी श्रुतिः। अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ॥१॥" यत एवं तस्मादधीत्य-पठित्वा वेदान् , परिवेष्य-भोजयित्वा, कान् ?, विप्रान् , तथा पुत्रान् परिष्ठाप्य-कलाकलापकलत्रग्रहणादिना निवेश्य गृहे-गृहस्थधर्मे हे जाती-पुत्रौ, तथा भुक्त्वा णेति वाक्यालङ्कारे, भोगान्-शब्दादीन् सह| सार्द्ध स्त्रीभिः, तत आरण्यको-आरण्यकब्रतधारिणौ भवेतां-सम्पद्येथां युवां, मुनी-तपस्विनी प्रशस्तौ-श्लाघ्यौ, इत्थमेव ब्रह्म
चांद्याश्रमव्यवस्थानात् , उक्तं हि-"ब्रह्मचारी १, गृहस्थश्च २, वानप्रस्थो ३, यतिः ४ तथा।" इह चाधीत्य वेदानित्यनेन ब्रह्मचर्याश्रमः, परिवेष्येत्यनेन गृहस्थाश्रमः, आरण्यकावित्यनेन वानप्रस्थाश्रमः, मुनिग्रहणेन यत्याश्रमश्चोक्तः॥८-९॥४४८-४४९॥
गृहस्थधर्मानन्तरं यति
त्वमिति भृगोरुत्तरम्
-
उत्तरा०१९
Jain Education a
nal
For Privale & Personal use only
D
ainelibrary.org