SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ नेति प्रतिषेधे तव भोगान् शब्दादीन् , उपलक्षणत्वात् अनार्यकर्माणि वा, त्यतुं बुद्धिः, यद्वा सोपस्कारत्वाद्भोगांस्त्यक्त्वा धर्मो मया विधेय इति बुद्धिः, अवगतिः, किंतु गृहो-मूच्छितोऽसि-भवसि, केषु ?-आरम्भपरिग्रहेषु सावद्यव्यापारेषु चतुष्पद द्विपदापदस्वीकारेषु च मोघं-निष्फलं यथा स्यादेवं सुव्यत्ययावा मोघो-निष्फलो मोहेन वा-पूर्वजन्मनि मे भ्राताऽऽसीदिति * स्नेहलक्षणेन कृतो-विहितः, एतावान् विप्रलापो-विविधव्यर्थवचनोपन्यासः, सम्प्रति तु गच्छामि राजन् ! आमन्त्रितः-सम्भा-[* षितः, अनेकार्थत्वात् धातूनां पृष्टोऽसि वा, कोऽर्थः ? अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणानुशिष्यमाणस्यापि तव मनागपि | न विषयविरक्तिरित्यविनेयत्वादुपेक्षैव श्रेयस्करीति ॥ ३३ ॥४३८ ॥ इत्थमुक्त्वा गते मुनी ब्रह्मदत्तस्य यदभूत्तदाह पंचालरायाऽषिय बंभदत्तो, साहुस्स तस्स वयगं अकाउं । अणुत्तरे भुजिय कामभोगे, अणुत्तरे सो नरए पविट्ठो ॥ ४३९ ।। अपिः-पुनरर्थे, चः पूरणे, ततः पञ्चालराजः पुनर्ब्रह्मदत्तः, साधोस्तस्यानन्तरोक्तस्य, वचनं-हितोपदेशरूपं, अकृत्वा-अवन ज्ञाय वज्रतन्दुलवद्गुरुकर्मतयाऽत्यन्तदुर्भेदत्वादननुष्ठाय, अनुत्तरान्-सर्वोत्तमान् भुक्त्वा-आसेव्य, कामभोगान् अनुत्तरे स्थित्यादिभिः सकलनरकज्येष्ठे अप्रतिष्ठाने स ब्रह्मदत्तः, नरके प्रविष्टः-तदन्तरुत्पन्नः, तदनेन निदानस्य नरकावसानफलत्वं दर्शितं भवतीति ॥ ३४ ॥ ४३९॥ ब्रह्मदत्तस्य नरकगमनम् Jain Education For Private & Personal use only brary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy