SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ पुरार्जितकर्मविपुलफलमेवैतत् , कथमन्यथा तथाभूतस्यैवंविधा समृझ्यवाप्तिरिति भावः, यतश्चैवमतोऽभिनिष्क्रामेतियोगः, किं | कृत्वा ?, त्यक्त्वा, भुज्यन्त इति भोगा-द्रव्यौघाः कौघा वा तानशाश्वतान् आदीयते-गृह्यते सद्विवेकरित्यादानः चारित्रधर्म | स्तद्धेतोः, अभिनिष्क्राम-आभिमुख्येन प्रव्रजितो भवः ॥ १८-२० ॥ ४२३-४२५ ॥ क एवमकरणे दोष इत्याह इह जीविए राय ! असासयंमि, धणियं तु पुण्णाई अकुचमाणो। से सोअई मचुमुहोवणीए, धम्मं अकाऊण परंमि लोगे ॥ ४२६ ॥ इह जीविते-मनुष्यसम्बन्धिनि आयुषि, राजन् ! अशाश्वते-अस्थिरे अतिशयेनैव, न तु ध्वजपटप्रान्ताद्यन्यास्थिरवस्तु-1 साधारणतया, पुण्यानि-पुण्यहेतुभूतानि शुभानुष्ठानानि अकुर्वाणः, स इति पुण्यानुपार्जकः शोचते-दुःखातः पश्चात्तापं कुरुते, मृत्युः-आयुःपरिक्षयस्तस्य मुखमिव मुखं मृत्युमुखं, शिथिलीभवद्वन्धनाद्यवस्थानादुपनीतः-तथाविधकर्मभिरुपढौकितः सन् : धर्ममकृत्वा, चस्य गम्यमानत्वात् परस्मिंश्च लोके जन्मान्तररूपे, गत इति शेषः, नरकादिष्विति वेदनार्दितः, शशिनृपवत् , किं न मया तदैव सदनुष्ठानमनुष्ठितमिति खिद्यत एवाधर्मकारीति ॥ २१॥ ४२६ ॥ अथ तस्य स्वजनादयस्त्राणं भविष्यन्तीत्याशंक्याह जह सीहो व मियं गहाय, मञ्चू नरं नेह हु अंतकाले । न तस्स माया व पिया व भाया, कालंमि तम्मंसहरा भवंति ॥ ४२७॥ धर्ममकरतारस्य मृत्युकाले शोकः उत्तरा०१८ JainEducation For Private & Personal use only Dainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy