________________
उत्तरा० अवचूर्णिः ॥१०२॥
चित्रसंभूतीयमध्ययनम्
तीसे य जाईइ उ पावियाए, बुच्छा मुसोवागनिवेसणेसुं। सवस्स लोगस्स दुगंछणिज्जा, इहं तु कम्माई पुराकडाई ॥ ४२४ ।।
सो दाणि सिं राय! महाणुभागो महिड्डिओ पुण्णफलोववेओ। चइत्तु भोगाई असासयाई, आयाणहेउं अभिनिक्खमाहि (मेवाणुचिंतयाहि पा०)॥४२५ ॥ नरिंदेत्यादि गाथात्रय, हे नरेन्द्र-चक्रवर्त्तिन् जातिः-अधमा नराणां-मनुष्याणां मध्ये श्वपाकजातिः, द्वयोरपि गतयोःप्राप्तयोरासीत् , कोऽयो ? यदाऽऽवां-श्वपाकजातावुत्पन्नौ, तदा सर्वजनगर्हितजातिरासीत्, कदाचित्तामवाप्याप्यन्यत्रैवोषितो स्यातामित्याह-यस्यां जातौ वयं प्राकृतत्वात् बहुवचनं सर्वजनस्य द्वेष्यौ-अप्रीतिकरौ अवसाव-उषितौ, केषु ?, श्वपाकानां निवेशनेषु-गृहेषु, कदाचित्तत्रापि विज्ञानविशेषादिना अहीलनीयावेव स्यातामित्याह-तस्यां च जातो, श्वपाकसम्बन्धिन्यां तु | विशेषणे, ततः शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका कुत्सिता तस्यां पापिकायां वा, नरकादि कुगतेरिति गम्यं, उषिती, मु इत्यावां, श्वपाकनिवेशनेषु कीदृशौ ?, सर्वस्य लोकस्य जुगुप्सनीयौ-हीलनीयौ, इह-अस्मिन् जन्मनि तुः-पुनः कर्माणि-शुभानुष्ठानानि पुराकृतानि-पूर्वजन्मनोपार्जितानि, विशिष्टजात्यादिबन्धनमिति शेषः, तत उत्पन्नप्रत्ययैः पुनस्तदर्जन एव यतितव्यं, न तु विषयाभिष्वंगव्याकुलैरेव स्थेयमिति भावः, यतश्चैवमतो यः पुरा सम्भूतनामा मुनिरासीत् स इदानींअस्मिन्काले, सिं इति पूरणे, यद्वा दाणिसिंति देश्यभाषयेदानी, राजापुण्यफलोपेतश्च सन् दृष्टधर्मफलत्वेनाभिनिष्क्रामेति योगः यद्वा सोपस्कारत्वाद्यः स एव त्वमिदानी राजा महानुभागताद्यन्वित इह जातस्तत्कर्माणि पुरा कृतानि इति सम्बन्धः, कोऽर्थः?,
XoxoxotoXXXXX 6XXXXX
मुनेरुपदेशः
call||१०२॥
Jain Education
swww.dainelibrary.org
For Private & Personal Use Only
emanal