________________
॥ अथ त्रयोदशं चित्रसंभूतीयमध्ययनम् ॥
चित्रसंभूतिभवाः
__ अनन्तराध्ययने तपःसमृद्धिरुक्ता, इह तु तत्प्राप्तावपि निदानं परित्याज्यमितिदर्शयितुं यथा तन्महापायहेतुस्तथा चित्रसंभूतोदाहरणेन निर्दिश्यते (६० ४५)*जाईपराजिओ खलु कासि नियाणं तु हथिणपुरंमि । चुलणीइ बंभदत्तो उववन्नो नलिन(पउम)गुम्माओ॥४०६॥
साकेतपुरेशचन्द्रावतंसकराजसुतमुनिचन्द्रः स्वसुतं राज्ये निवेश्य प्रबजितः, अन्यदा स सार्थेन गुरुभिः समं ब्रजन भक्ताद्यर्थ क्वचित्प्रत्यन्तग्रामे प्रविष्टो, विस्मृत्या गुर्वादिषु सार्थवशाच्चलितेषु अनुचलितो, मूढदिक पतितो वन्ध्याटवीं, उत्तीर्णस्तृतीयदिने, तदा च क्षुत्क्षामकुक्षिशुष्कोष्ठकण्ठतालुवृक्षाधो मूञ्छितो, दृष्टश्चतुर्भिोपैः, जातानुकम्पैः प्रतिजागरितः, प्रतिलाभितश्च प्रासुकान्नादिना स साधुः, अनेनोक्तो धर्मः, गृहीतश्च तैः, तत्र द्वयोः साधुदेहमलजुगुप्सा अभूत् , तदनुकम्पातः सम्यक्त्वाच्चैते चत्वारोऽपि | दिवं ययुः, ततश्च्युत्वा, अकृतजुगुप्सी कतिचिद्भवान्तरिती द्वाविषुकारपुरे द्विजकुले जातो, तद्वक्तव्यता च इषुकारीयाध्ययने वक्ष्यते, यौ च द्वौ जुगुप्सको तो दशपुरे शाण्डिल्यद्विजयशोमतीदासीसुतो यमली जातौ, अन्यदा काष्ठार्थ बहिर्गतो, रात्री सर्पदृष्टौ मृत्वा मृगौ जातो, तत्र व्याधहती हंसी जातो, तत्रापि लुब्धकेन व्यापादितौ चित्रसंभूताख्यो श्वपाकसुतौ जाता, तयोर्मध्ये संभूतजीवब्रह्मदत्तजीवेनात्राधिकारो, ब्रह्मदत्तस्यैव निदानस्यैवात्र विवक्षितत्वात् , द्वितीयेनापि च प्रसङ्गतोऽभिधीयमानत्वात् ।
Jain Education
For Privale & Personal use only
Jainelibrary.org