________________
XXXEXOXOXO-KOXOXOXOXOXOX
शीलं प्रस्तावाच्छोभनं त्यक्त्वा हित्वा वा दुःशीले भावप्रधानत्वाद्वा दौःशील्ये, उभयत्र अनाचारे रमते-धृतिं आधत्ते, मृग इव मृगः, अज्ञानत्वात् अविनीतः इति, अयमत्र आशयो-यथा मृगो मरणापायं अपश्यन् अज्ञतया गौरीगानाकृष्टो व्याधमनुसरति, तथा एषोऽपि भवभ्रममनवगच्छन् विष्ठास्थानीये दुःशीले रमते ॥५॥
उक्तोपसंहारपूर्वकं कृत्योपदेशमाह
सुणिआभावं साणस्स, सूयरस्स नरस्स य । विणए ठविज अप्पाणं, इच्छंतो हियमप्पणो ॥६॥ श्रुत्वा -आकर्ण्य अभावं-नञः कुत्सार्थत्वात् अशोभनभावतः, सर्वतो निष्काश्यरूपं शुन्या इव प्रान्तत्वात् इव इति गम्यं, तत एव शूकरोपमस्य नरस्य, चः पूरणे, यद्वा शुन्याः शूकरस्य च दृष्टान्तस्य नरस्य च दाष्टान्तिकस्य अशोभनभावं, वक्ष्यमाणस्वरूपे स्थापयेत् , आत्मनैवेति गम्यते, वाञ्छन् ऐहिकमामुष्मिकं च पथ्यमात्मनः ॥ ६॥
यतश्चैवं ततः किमित्याह
तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ। बुद्ध (वु पा.)त्ते नियागट्ठी, न निकसिज्जइ कण्हुई ॥७॥
तस्मात् एषयेत् - अनेकार्थत्वात् धातूनां कुर्यात् , उक्तरूपं प्रतिलभेत -प्राप्नुयात् , विनयात् बुद्धादीनां - आचार्यादीनां पुत्र लाइव पुत्रः, नितरां यजनं यागः-पूजा, यस्मिन् नियागो-मोक्षः तदर्थी सन् न निष्कास्यते-न बहिष्क्रियते कुतश्चित् गणादेः,
किन्तु विनीतत्वेन सर्वत्र मुख्य एव क्रियते ॥७॥
कृत्योपदेशः
Jain Education
Jainelibrary.org
For Private & Personal Use Only
Lional