________________
OXOXOXOX
संसारोदधितरणोपायभूतानि ?, तथा च वाशब्दस्य भिन्नक्रमत्वात् कस्मिन्वा स्नातः रज इव रजःकर्म जहासि-त्यजसि ? आचक्ष्व-व्यक्तं वद नः-अस्माकं, इच्छामो ज्ञातुं भवतः सकाशे ॥ ४५ ॥ ४०३ ॥ मुनिराह
धम्मे हरए बंभे संतितित्थे, अणाविले अत्तपसन्नलेसे । जहिं सि ण्हाओ विमलो विसुद्धो, सुसीइ(ल पा०)भूओ पजहामि दोसं ॥ ४०४॥ धर्मो-अहिंसाद्यात्मकः, हृदः कर्मरजोऽपहन्तृत्वात् , ब्रह्मेति-ब्रह्मचर्य शांतितीर्थ, तदासेवनेन हि सकलमलमूल रागद्वेषा. वुन्मूलितावेव, सत्याधुपलक्षणं चैतत् , तथा चाह-"ब्रह्मचर्येण सत्येन, तपसा संयमेन च । मातङ्गर्षिर्गतः शुद्धिं, न शुद्धिस्तीर्थयात्रया ॥१॥” यद्वा मतुब्लोपात्सुब्व्यत्ययाच्च ब्रह्मेति ब्रह्मचर्यवंतः-साधव उच्यन्ते, ते सन्ति तीर्थानि ममेति गम्यं, हृदशान्तितीर्थे एव विशिनष्टि, अनाविले-मिथ्यात्वगुप्तिविराधनादिभिरकलुषे, अत एवात्मनो-जीवस्य प्रसन्ना-मनागप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिंस्तस्मिन्नात्मप्रसन्नलेश्ये, एवंविधे धर्महदे ब्रह्माख्ये शान्तितीर्थे च, यदा ब्रह्मेति ब्रह्मचर्यवन्त उच्यन्ते तदा तत्पक्षे इदं विशेषणद्वयं वचनव्यत्ययेन व्याख्येयं, यत्र-यस्मिन् स्नात इव स्नातः विमल:-विगतभावमलः, अत एव विशुद्धःगतकलङ्कः, सुशीतीभूतो-रागाद्यनुत्पत्तितः सुष्ठ शैत्यं प्राप्तः, प्रजहामि-त्यजामि दूषयति-विशुद्धमप्यात्मानं विकृति नयतीति दोषः-कर्म तं, एतेन ममापि ह्रदतीर्थे एव शुद्धिस्थानं, परमेवंविधे एवेति ॥४६॥४०४ ॥
धर्मादेहूंदादित्वम्
PXOXOXOXOX
उत्तरा०१७
Jain Education
a
l
For Privale & Personal Use Only
Enelibrary.org