________________
RANDIINIAurangamamme
इदं च प्रत्यक्षतः परिदृश्यमानं ममास्ति-विद्यते, प्रभूत-प्रचुर अन्नं-मण्डकखण्डखाद्यादि, यत् प्राक् पृथगोदनग्रहणं तत्तस्य सर्वान्नप्रधानत्वख्यापनार्थ, तत् भुङ्ग, अस्माकमनुग्रहार्थ-वयमनुगृहीता भवाम इति हेतोः, एवं च तेनोक्ते मुनिराह-वाढमेवं कुर्म इत्येवं त्रुवाण इति शेषः, प्रतीच्छति-गृह्णाति भक्तपानं, मासादेव यद्वा मासस्यैव अन्ते इत्युपस्कारः पार्यते-पर्यन्तः क्रियते गृहीतनियमस्यानेनेति पारणं तदेव पारणकं-भोजनं तन्निमित्तं, महान्-प्रशस्यो विशिष्टवीर्योल्लासत आत्मा अस्येति महात्मा ॥ ३५ ॥ ३९३ ॥ तदा च तत्र यदभूत्तदाह
तहियं गंधोदयपुप्फवासं, दिव्वा तहिं वसुहारा व बुट्ठा।
पहया दुंदुहीओ सुरेहिं, आगाले अहोदाणं च(प्र. ति)घुटुं ।। ३९४ ॥ तस्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञपाटके गन्धप्रधानमुदकं गन्धोदकं च पुष्पाणि च तेषां वर्षणं वर्ष गन्धोदकपुष्पवर्ष, सुरैरिति सम्बन्धात् कृतमिति गम्यते, दिव्या-अतिश्रेष्ठाः तस्मिन् वसु-द्रव्यं तस्य धारा-सततपातजा सन्ततिवृष्टा-पातिता, सुरैरिति अत्रापि सम्बध्यते, प्रहताः-ताडिताः दुन्दुभयो-देवानकाः, उपलक्षणत्वात् शेषातोद्यानि च, सुरैः-देवैः, तथा तैरेव आकाशे अहो इति विस्मये, विस्मयनीयमिदं दानं कोऽन्यः किलैवं शक्नोति दातुं ?, एवं दत्तं सुदत्तं इति च घुष्ट-शब्दितम् ॥३६॥ ३९४ ॥
दाने वसुधारादिदिव्यानि
पातिता,
'' एवं दत्तं व सुरैः-देवः
JainEducation
For Private & Personal use only