________________
PX
उत्तरा० मवचूर्णिः
हरिकेशीयम ध्ययनम्
॥१२॥
१२
ते पासिआ खंडिअ कट्ठभूए, विमणो वि(प्र० वो)सन्नो अह माहणो सो।
इसिं पसाएइ सभारियाओ(प्र० ओसे), हीलं च निंदं च खमाह भंते !॥ ३८८ ॥ गाथाद्वयं, अवहेठितानि-अधोनामितानि, पृष्ठिं यावत्सन्ति-शोभनानि उत्तमाङ्गानि येषां ते अवहेठितपृष्ठिसदुत्तमाङ्गास्तान् प्रसारिता-विरलीकृता बाहवो यैर्येषां ते तथा, कर्माणि-अग्नौ समित् क्षेपादीनि तद्विषया चेष्टा कर्म चेष्टा सा न विद्यते येषां | ते तथा तान , पसारिआ इत्यत्राकारः प्राकृतत्वात् , प्रसारितानि अक्षीणि-लोचनानि येषां तान् , रुधिरं वमन्तः, ऊर्ध्वमुखान्| उन्मुखीभूतवक्त्रान् , अत एव निर्गतजिह्वानेत्रान् , तानुक्तरूपान् दृष्ट्वा आर्षत्वात्सुपो लुकि खण्डिकान्-छात्रान् काष्ठभूतान् अत्यन्तनिश्चेष्टतया काष्ठोपमान् विगतमिव विगतं मनोऽस्येति विमनाः, विषण्णः-कथममी सजीभविष्यन्तीति चिन्ताव्याकुलः, अथेति दर्शनानन्तरं, स सोमदेवनामा ऋषि-तमेव हरिकेशबलनामानं प्रसादयति, सभार्याकः, कथमित्याह-हीलां च-अवज्ञा निन्दा च-दोषोद्धट्टनं क्षमस्व-सहस्व भदन्त ! ॥ २९-३० ॥ ३८७-३८८ ॥ पुनः प्रसादनार्थमेवाह
बालेहि मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते !।
महप्पसाया इसि(प्र० मुणि)णो हवंति, न हु मुगी कोवपरा हवंति ॥ ३८९ ॥ बालैः-शिशुभिः, मूढैः कषायमोहनीयवशाद्वैचित्र्यं गतैः, अत एव चाज्ञैः-हिताहितविवेकविकलैः, यद् इत्युपदर्शने,
KOKDOXOXOXOXOXOXe
याज्ञिकब्राह्मणानां क्षमापना
॥ ९२॥
Jain Educational
For Private & Personal use only
PCinelibrary.org