SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ अवधीरयथ, अनर्थफलत्वाद्भिवपमानस्येति भावः, कथमिदमित्याह-आशीविषः-शापानुग्रहसमर्थः, यद्वा आशीविष:-सर्प इवासीविषः, अवज्ञातः सन् मरणप्रद इति भावः, कुतः पुनरयमेवंविधो ?, यत उग्रतपाः, महान्-बृहन् शेषस्वर्गाद्यपेक्षया मोक्षस्तमिच्छति-अभिलपतीति महदेषी महर्षिर्वा, यतश्चैवमतः अग्निं, वा इवार्थे भिन्नक्रमश्च, ततः प्रस्कन्दथेव-आक्रमथेव, का इव ?, उपमार्थस्य गम्यमानत्वात्पतङ्गसेनेव-शलभततिरिव, यथा ह्यसौ तत्र निपतन्ती आशु घातमामोत्येवं भवन्तोऽपीति भावः, ये यूयं अनुकम्पितं भिक्षु भिक्षुकं भक्तकाले-भोजनसमये, तत्र हि दीनादेरवश्यं देयमिति शिष्टसमयो, यूयं तु न केवलं न यच्छथ, किंतु तत्रापि विध्यथ-ताडयथ, अयमत्राशयो-यतोऽयं आशीविषादिविशेषणान्वितो मुनिरितो गिरिनखखननादिप्रायमेवेदं मुनिताडनं, अतश्च कृत्योपदेशमाह-शीर्षण-शिरसा एनं मुनि शरणं-त्राणं उपेता-अभ्युपगच्छत, कोऽर्थः ?, शिरःप्रणामपूर्व अयमेवास्माकं शरणमिति प्रतिपद्यध्वं, समागताः-संमिलिताः सर्वजनेन, सहार्थे तृतीया, यूयं यदीच्छत-अभिलपथ, जीवितं वा धनं वा, नास्मिन् कुपिते जीवितव्यादिरक्षाक्षममन्यच्छरणमस्ति, यतो लोकमपि-भुवनमप्येष कुपितो दहेद्भस्मसात्कुर्यात् ॥ २६-२८ ॥ ३८४-३८६॥ सम्प्रति तत्र पतितान् यादृशान् ददर्श, दृष्ट्वा च यदचेष्टत तदाह अवहेडिय(आवडिए पा०)पिडिसउत्तमंगे, पसारियाबाहुअकम्मचिठे। निब्भेरियच्छे रुहिरं वमंते, उड्डेमुहे निग्गयजीहनित्ते ॥ ३८७॥ यक्षवचनम -aXXXXXXXXXXXXX Jain Education For Private & Personal use only Alainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy