________________
K-XOKOXOXOXOXOXOXOXOXOXOXO
इत्थं तेनोक्ते अध्यापकप्रधान आह
के इत्थ खत्ता उवजोइया वा, अज्झावया वा सह खंडिएहिं ? ।,
एयं खु दंडेण फलेण हंता, कंठंमि चित्तूण खलेज जोणं ॥ ३७६ ॥ के अत्रास्मिन स्थाने क्षत्रा:-क्षत्रियाः उपज्योतिष्काः अग्निसमीपवर्तिनो महानसिका ऋत्विजो वा, अध्यापका-पाठका वा, उभयत्र वा विकल्पे, सह युक्ताः खण्डिकैः छात्रैः, ये किमित्याह, एनं श्रमणकं दण्डेन-वंशयथ्यादिना फलेन-बिल्वादिना, यद्वा दण्डेन-कूपराभिघातेन फलेन-मुष्टिप्रहारेण हत्वा-ताडयित्वा, ततश्च कण्ठे-गले गृहीत्वा स्खलयेयुः-निष्कासयेयुः, वचनव्यत्ययाद्ये इत्थमेतदभिघाते निष्कासने वा शक्ताः, णं वाक्यालङ्कारे ॥ १८ ॥ ३७६॥ अत्रान्तरे यदभूत्तदाह
अज्झावयाणं बयणं सुणित्ता, उद्धाइया तत्थ बहू कुमारा ।
दंडेहिँ वित्तेहिं कसेहि बेव, समागया तं इसिं(प्र० मुणि)तालयंति ॥ ३७७ ॥ एकत्वेऽपि पूज्यत्वाद्बहुवचनं, वचनमुक्तरूपं, (श्रुत्वा) उद्धाविता वेगेन प्रसृताः-तत्र यत्र मुनिरस्ति, कुमारास्तरुणाश्छात्रादयः, ते हि क्रीडनकमागतमिति रभसतो दण्डैः, वेत्रैः-जलवंशात्मकैः, कशैः-वध्रविकारैश्च, एवेति पूरणे, समागताः-सम्प्राप्ता मिलिता वा तं ऋषि ताडयन्ति-घ्नन्ति ॥ १९ ॥ ३७७॥
अध्यापकवाक्ये छात्रोपद्रवः
JainEducationa
l
For Private & Personal use only
arbaryong