SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आरंभत्वे त्वसाधकब्रह्मचर्यक्रियाद्यभावान्न जातिः, तथा विरतिरूपज्ञानफलाभावान्नापि विद्या इति, तुरेवार्थभिन्नक्रमः, ततस्तानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि क्रोधाद्युपेतत्वेनातिशयपापहेतुत्वात् ॥ १४ ॥ ३७२ ॥ कदाचित्ते वदेयुः-वेदविद्याविदो वयं, अत एव च ब्राह्मणा इत्याह तुब्भेत्थ भो!भारहरा गिराणं, अटुं न याणाह अहिज्ज वेए। उच्चावयाई मुणिणो चरंति, ताई तु खित्ताई सुपेसलाई ॥ ३७३ ॥ यूयमत्र लोके, भो इत्यामन्त्रणे, भारधरा गिरा-वेदसम्बन्धिनीनां, यतोऽर्थ न जानीथ, अपेर्गम्यत्वात् अधीत्यापि वेदान, तथाहि 'आत्माऽरे ज्ञातव्यो निदिध्यासितव्यः', तथा 'कर्मभिर्मृत्युमृषयो निषेदुः, प्रजावन्तो द्रविणमन्विच्छमानाः, अथापरं कर्मभ्योऽमृतत्वमानशुः'-"परेण नाकं निहितं गुहायां, विभ्राजते यद्यतयोऽविशन्त । वेदाहमेतं पुरुषं महान्तं, तमेव विदित्वा*मृतत्वमेति ॥१॥ नान्यः पन्था अयनाये"त्यादिवचसां यद्यर्थवेत्तारः स्युः तत्किमर्थ यागादि कुर्वीरन् ?, ततस्तत्त्वतो वेदविदोऽपि भवन्तो न भवन्ति, कानि तर्हि क्षेत्राणीत्याह-उच्चावचानि-उत्तमाधमानि मुनयश्चरन्ति-भिक्षार्थ पर्यटन्ति ये गृहाणीति शेषः, नतु भवन्त इव पचनाद्यारम्भरताः, ततस्तत्त्वतस्त एव वेदविदः, तत्रापि भैक्षवृत्तेरेवोक्तत्वात् , तथा चोक्तं “चरेन्मधुकरी वृत्तिमपि म्लेच्छकुलादपि । एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥” यद्वा उच्चव्रतानि-महाव्रतानि ये मुनयश्चरन्तिआसेवन्ते, न तु यूयमिव अजितेन्द्रियाः, तान्येव मुनिलक्षणानि ॥ १५ ॥ ३७३ ॥ वेदविदभावः XXX Jain Education anal For Privale & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy