________________
उपस्कृतं-लवणवेसवारादिसंस्कृतं, भोजनं माहनानां-ब्राह्मणानां आत्मार्थे भवं-आत्मार्थिक, ब्राह्मणैरप्यात्मनैव भोज्यं, न| | त्वन्यस्मै देयं, किमिति, यतः-सिद्धं निष्पन्नं, इह यज्ञे एकः पक्षो विप्रलक्षणो यस्य तदेकपक्षकोऽर्थो यदस्मिन्नुपस्क्रियते न तद्ब्राह्मणव्यतिरिक्तायान्यस्मै दीयते, विशेषतस्तु शूद्राय, यदुक्तं-"न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धर्म, न चास्य व्रतमादिशेत् ॥१॥” यतश्चैवमतो नतु-नैव वयं ईदृशमुक्तरूपं, अन्नं चोदनादि, पानं च द्राक्षापानाद्यन्नपानं दास्यामः, तुभ्यं नैवेहावस्थितावपि तव किंचिदिति भावः ॥ ११॥ ३६९ ॥ यक्ष आह
*न ददम इति थलेसु बीआई ववंति कासया, तहेव निन्नेसु य आससाए।
वचने कृषीएआइ सद्धाइ दलाहि मज्झं, आराहए पुण्णमिणं खु खित्तं (गा होहिम पुण्णखेत्तं पा०)॥ ३७० ॥
| बलवद्देयता स्थलेषु-जलावस्थितिरहितेषु उच्चभूभागेषु बीजानि-गोधूमशाल्यादीनि वपन्ति-रोपयन्ति कर्षकाः-कृषीबलाः, तथैव-यथा स्थलेष्वेवमेव, निम्नेषु-नीचभूभागेषु च आशंसया-अत्यन्तवर्षणे स्थलेषु अल्पवर्षणे निम्नेषु (च) फलावाप्तिः स्यादित्येवमभिलाषात्मिकया, एतया-एतदुपमया उक्तरूपकर्षकाशंसातुल्ययेत्यर्थः, श्रद्धया-वाञ्छया ददध्वं मह्यं, कोऽर्थः? यद्यपि भवतां निम्नोपमत्वबुद्धिरात्मनि, मयि तु स्थलतुल्यताधीस्तथापि मे दातुमुचितं, अथ स्याद् एवं दत्तेऽपि न फलावाप्तिरित्याह-खोरेवार्थस्य भिन्नक्रमत्वादाराधयेदेव पुण्य-शुभं, इदं दृश्यमानं क्षेत्रमिव क्षेत्रं पुण्यसस्यप्ररोहहेतुतया आत्मानमेव पात्रभूतमेवाह ॥१२॥ ३७०॥
CXOXOXOXOXOXOXOXOXOXOXXX
Sain Educ
a
tional
For Privale & Personal use only
ww.jainelibrary.org