________________
उत्तरा०
अवचूर्णिः
॥ ८७ ॥
वियरिज्जइ खज्जइ भुज्जई य, अन्नं पभूयं भवयाणमेअं । जाणाहि मे जायणजीवि (प्र० व) णुत्ति, सेसावसेसं लहओ (प्र० ऊ) तवस्सी ॥ ३६८ ॥
गाथाद्वयं श्रमणो - मुनिः, अहं किमभिधानत एवेत्याशङ्कयाह - संयत-असद्व्यापारेभ्य उपरतः, अत एव ब्रह्मचारी - ब्रह्मचर्यवान्, तथा विरतो - निवृत्तः, कुतो ?, धनं-चतुष्पदादि पचनं च आहारस्य निष्पादनं, परिग्रहश्च द्रव्यादीनां मूर्च्छा तस्मात्, अत एव तोरेवार्थत्वात्परप्रवृत्तस्यैव- परार्थ निष्पन्नस्यैव, न तु मदर्थं साधितस्येति भावः, भिक्षाकाले अन्नस्य अर्थाय, भोजनार्थमिति भावः । इह यज्ञवाट के आगतोऽस्मि अनेन यदुक्तं 'कतरस्त्वमित्यादि तत्प्रतिवचनमुक्तं, एवमुक्ते ते कदाचिदभिदध्युः - नेह किञ्चित्कस्मैचिद्दीयते, न वा देयमस्त्यत आह-वितीर्यते - दीयते दीनानाथादिभ्यः, खाद्यते खण्डखाद्यादि, भुज्यते च भक्तं सूपादि, अन्नं सर्वमपि सामान्येनोच्यते, प्रभूतं भवतां सम्बन्धि एतत्प्रत्यक्षं जानीत- अवगच्छत, सूत्रत्वान्मां याचनेन जीवनं - प्राणधारणमस्येति याचनजीवनः, आर्षत्वादिकारः, इति-स्वरूपपरामर्शकः, यतश्चैवं ततः, यद्वा याचनजीवनशीलं - याचनजीविनं, द्वितीयार्थे षष्ठी, इत्यस्माद्धेतोः शेषावशेषमुद्धरितस्याप्युद्धरितमन्तप्रान्तमित्यर्थः, लभतां प्राप्नोतु तपस्वीयतिर्वराको वा भवदभिप्रायेण ॥ ९ ॥ ३६७ ॥ ३६८ ॥
एवं यक्षेणोक्ते ते प्राहुः
Jain Education International
saras भोयण माहणाणं, अत्तट्ठिअं सिद्धमिहेगपक्खं । नऊ व (प्र० उच्च) यं एरिसमन्नपाणं, दाहामु तुज्झं किमिहं ठिओऽसि ? ॥ ३६९ ॥
For Private & Personal Use Only
XXXCXXXCXX
हरिकेशीयमध्ययनम्
१२
श्रमणस्वरूपमागमन
प्रयोजनं च
11 20 11
www.jainelibrary.org