________________
कतरस्त्वं, को रे इति पाठे कस्त्वं रे इति नीचामन्त्रणे, इति-एवमदर्शनीयो-द्रष्टुमनर्हः, कया वा-किंरूपया वा आशया, प्राकृतत्वादेकारलुप्, इह-यज्ञपाटके, मोऽलाक्षणिकः, आगतः-प्राप्तः असि-भवसि, अवमचेलकः पांशुपिशाचभूतः, पुनरनयोरुक्तिरत्यन्ताधिक्षेपप्रदर्शनार्थ, गच्छ-ब्रज, प्रक्रामाद्यज्ञपाटकात् , खलाहित्ति देशीवचनत्वादपसर अस्मदृष्टिपथात् , तथा किमिह | यज्ञपाटके स्थितोऽसि त्वं ?, नैवेह त्वया स्थेयमिति भावः ॥ ७॥ ३६५॥ एवमधिक्षिप्तेऽपि तस्मिन् मुनी प्रशमपरतया किञ्चिदजल्पति, तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यदचेष्टत तदाह
जक्खो तहिं तिंदुयरुक्खवासी, अणुकंपओ तस्स महामुणिस्स। पच्छायइत्ता नियगं सरीरं, इमाई वयणाई उदाहरित्था ॥ ३६६ ॥
X ब्राह्मणालापे यक्षो-व्यन्तरविशेषः, तस्मिन्नवसरे इति गम्यं, तिन्दुकवनमध्ये तिन्दुको नाम वृक्षस्तद्वासी, तस्यैवाधश्चैत्यं यत्र स साधुःयक्षोत्तरम स्थितोऽस्ति, अनुरूपं कम्पते-चेष्टते इत्यनुकम्पक:-अनुकूलक्रिया प्रवृत्तिः, कस्येत्याह-तस्य हरिकेशबलस्य महामुनेः प्रच्छाद्य| प्रकर्षणावृत्य निजक-आत्मीयं शरीरं तदेहे एवाविश्य, स्वयमनुपलक्ष्यः सन् इत्यर्थः, इमानि वक्ष्यमाणानि वचनानि उदाहार्षीत्-1K उदाहृतवान् ॥ ८॥ ३६६ ॥ कानि पुनस्तानीत्याह
समणो अहं संजउ बंभयारी, विरओ धणपयण(प्र० सयण)परिग्गहाओ। परप्पवित्तस्स उ भिक्खफाले, अन्नस्स अट्ठा इहमागओमि ॥ ३६७ ॥
Jain Education
For Privale & Personal use only
ROUNainelibrary.org