SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ -*-0 हरि उत्तरा० अवचर्णिः/ केशीयमध्यवनम् ॥८६॥ १२ गाथाद्वयं, जातिमदेन 'ब्राह्मणा वय'मिति अनेन प्रतिस्तब्धाः, हिंसका:-प्राण्यपकारिणः, अजितेन्द्रियः, अत एवाब्रह्ममैथुनं तच्चरितुं शीलं धर्मो वा एषां ते अब्रह्मचारिणः, अत एव बाला इव बालाः, बालक्रीडानुकारिष्वग्निहोत्रादिषु प्रवृत्तत्वात्, इदं वक्ष्यमाणं वचनं तिब्यत्ययादब्रुवन्-उक्तवन्तः, किं तदित्याह-कतरः प्राकृतत्वादेकारः आगच्छति-आयाति, दीप्तरूपः, दीप्तवचनं तु अतिबीभत्सोपलक्षक, अत्यन्तदाहिषु स्फोटकेषु शीतलकव्यपदेशवत्, कालो वर्णतः विकरालको-भयानको दन्तुरत्वादिना, देशीवचनत्वात्फोक्का-अग्रे स्थूलोन्नता नासा अस्येति फोक्वनासः, अवमन्थि-असाराणि लघुत्वजीर्णत्वादिना चेलानि-वस्त्राण्यस्येति अवमचेलकः, पांशुना-रजसा पिशाचवद्भूतो जातो, गमकत्वात्समासः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनखरोमा पांशुगुण्डितश्चेष्टस्ततः सोऽपि निष्प्रतिकर्म तया रजोदिग्धदेहतया चैवमुक्तः, सङ्करः प्रस्तावात्तृणभस्मगोमयादीनां मेलक उत्कुरुडिकेत्यर्थः, तत्र दूष्यंवस्त्रं सङ्करदूष्यं, तत्र हि यदत्यन्तनिकृष्टं-निरुपयोगि तल्लोकैरुत्सृज्यते, ततस्तत्प्रत्ययमन्यदपि तथोक्तं, यद्वोज्झितधर्मकमेवासौ गृह्णाति इत्येवमुक्तिः, परिधृत्य-निक्षिप्य, क? कण्ठे-गले, सो ह्यनिक्षिप्तोपकरण इति स्वमुपधिमुपादायैव भ्राम्यति, अत्र कण्ठैकपाधै कण्ठशब्दः ॥ ३६३-३६४ ॥ इत्थं दूरादागच्छन्नुक्तः, आसन्नं चैनं किमाहुरित्याह कयरे(को रे पा०)तुमं इय अदंसणिज्जे ?, काए व आसा इहमागओऽसि । ओमचेलगा! पंसुपिसायभूया !, गच्छ क्रखलाहि किमिहं ठिओऽसि ॥ ३६५ ॥ ब्राह्मणानां स्वरूपमुक्तिश्च XOXOXOXOXOXOXOXOXOXOXE ॥८६॥ Jain Education Internamonal For Privale & Personal use only helibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy