________________
उत्तरा०
अवचूर्णिः
॥ ८५ ॥
हम्मए सप्पो, भेरुंडो तत्थ मुच्चई ॥ १ ॥ " ( उ० नि० ३२६ ) इति चिन्तयन् सम्बुद्धः, प्रब्रजितो, गतो वाणारयां, तिन्दुकोद्याने गण्डीयक्षायतने अनुज्ञाप्य तस्थौ, सो यक्षस्तत्तीत्रतपसा उपशान्तो जातः संस्तं सेवते, अथान्यदा कोसलिकराजपुत्री पुष्पादीन्यादाय यक्षमर्चितुं तत्रागता, प्रदक्षिणां कुर्वती तं साधुं कालं विकरालं दृष्ट्वा निष्ठुभति स्म, यक्षेण रुष्टेन विवशीचक्रे, ततो गृहं नीता, आवेशितोऽवादीत् तदा मुञ्चामि चेत् तस्यैव ददध्वं, मानितं राज्ञा, ततो मुक्ता, पश्चात् राज्ञा विवाहिता, प्रतिमास्थः स नेच्छति, तत ऋषिपत्लीति कृत्वा पुरोधसोऽर्पिता, पश्चाद्यज्ञे दीक्षितुकामेन पुरोहितेन यक्षपली भविष्यतीति स्वीकृता च सा' इति सम्बन्धः । श्वपाकाः - चाण्डालास्तेषां कुले सम्भूतः - समुत्पन्नः - श्वपाककुलसम्भूतः, गुणेषु उत्तराः-प्रधानाः, ज्ञानादयस्तान् धारयति गुणोत्तरधरो मुनिः, श्वपाककुलोत्पन्नोऽपि कदाचित्संवासादिना अन्यथैव प्रतीतः स्यादत आह- हरिकेशो- हरिकेशतयैव - चाण्डालतयैव प्रतीतो, बलाह्व आसीत् अभूत्, भिनत्ति सदनुष्ठानेन क्षुधमष्टविधं कर्मेति भिक्षुः, अत एव जितानि - वशीकृतानीन्द्रियाणि येनेति जितेन्द्रियः ॥ ३५९ ॥
तथा
इरिएस भासाए, उच्चारसमिईसु य । जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ॥ ३६० ॥ ईर्ष्या - एषणाभाषोच्चार समितिषु, भासाएत्ति एकारोऽलाक्षणिकः, चो भिन्नक्रमोऽग्रे योक्ष्यते, यतो- यत्नवान्, तथादाननिक्षेपे च, समितिशब्दश्च मध्यस्थितो डमरकमणिरिवाद्यन्तयोरपि सम्बध्यते, ततश्चादाननिक्षेपसमिताविति योज्यं, किंभूतः सन् ?, संयतः-संयमवान्, सुसमाहितः - सुष्ठुसमाधिमान् ॥ ३६० ॥
Jain Education on
For Private & Personal Use Only
**OX CXCX ** c*****c*** XCX
हरि
केशीयम
ध्ययनम्
१२
हरिकेशि
दृष्टान्तः
।। ८५ ।।
ainelibrary.org