________________
Xx
किं बहुना
जहा से सयंभूरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं भवइ बहुस्सुए ।। ३५६ ॥ स्वयम्भूरमणः समुद्रः अक्षय - अविनाश्युदकं - जलमस्मिन्निति अक्षयोदकः, नानारत्नैर्मरकतादिभिः प्रतिपूर्णः, सोऽप्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नवांश्च स्याद्, यद्वा अक्षत उदयो यस्य स अक्षतोदयः ॥ ३० ॥ ३५६ ॥
साम्प्रतमुक्तगुणानुवादनफलोपदर्शनतश्च तस्यैव माहात्म्यमाह
?
Jain Education International
समुद्दगंभीरसमा दुरासया, अचकिआ केणइ दुप्पहंसया ।
अस्स पुण्णा विउलस्स ताइणो, खवेत्तु कम्मं गहमुत्तमं गया ।। ३५७ ॥
समुद्रस्य आर्षत्वात् गाम्भीर्येण - अलब्धमध्यात्मकेन गुणेन समाः समुद्रगम्भीरसमाः, दुःखेनाश्रीयन्ते - अभिभवबुद्ध्या आसाद्यन्ते वा - जेतुं सम्भाव्यन्ते केनापीति दुराश्रया दुरासदा वा अत एवाचकिता - अत्रासिताः, केनचित्परीषहादिना परप्रवादिना वा, तथा दुःखेन प्रधयन्ते - पराभूयन्ते केनापीति दुष्प्रधर्षकाः, सुब्व्यत्ययात् श्रुतेन-आगमेन पूर्णाः, विपुलेनअङ्गोपाङ्गप्रकीर्णकादिभेदतो विस्तीर्णेन तायिनः त्रायिणो वा, एवंविधाश्च बहुश्रुता एव, तानेव फलतो विशेषयितुमाह-क्षपयित्वा - विनाश्य कर्म - ज्ञानावरणादि, गतिमुत्तमां- मुक्तिमित्यर्थः, गताः प्राप्ताः, उपलक्षणत्वात् गच्छन्ति गमिष्यन्ति च, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशता पूज्यताख्यापनार्थ व्याप्त्यर्थं वा ॥ ३१ ॥ ३५७ ॥
For Private & Personal Use Only
फलोप मुखेम
बहुश्रुतस्तवः
www.jainelibrary.org