________________
XOXOXOXO
उत्तरा० यथा सा दुमाणां मध्ये प्रवरा जम्बूः नाम्ना सुदर्शना नाम सुदर्शना, न हि यथेयममृतोपमफला देवाद्याश्रयश्च तथा अन्यः
बहुश्रुतअवचूर्णिः कश्चिद् दुमोऽस्ति, सा च कस्येत्याह-अनादृतस्य नाम्नः-जम्बूद्वीपेशव्यन्तरसुरस्याश्रयत्वेन सम्बन्धिनी, सोऽप्यमृतोपमफल- पूजा* कल्पश्रुतान्वितो देवादीनामपि च पूज्यतया अभिगमनीयः, शेषदुमोपमसाधुषु प्रधानश्च स्यात् ॥ २७ ॥ ३५३ ॥
ध्ययनम् जहा सा नईण पवरा, सलिला सागरंगमा । सीया नीलवंतपवहा(भवा पा०), एवं०॥ ३५४ ॥ नदीनां प्रवरा सलिलमस्या अस्तीति 'अभ्राद्यप्रत्यये' सलिला-नदी, सागरङ्गमा-समुद्रपातिनी, न तु क्षुद्रनदीवदपान्तराल एव विशीयते, (शीता), नीलवतः प्रवहतीति नीलवत्प्रवहा, सोऽपि नदीनामिवान्यसाधूनामशेषश्रुतज्ञानिनां वा मध्ये प्रधानो विमलजलकल्पश्रुतान्वितश्च, तथा सागरमिव मुक्तिमेवासी गच्छति, तदुचितानुष्ठाने प्रवृत्तत्वात् , न चान्यतीर्थ्यानामिव
जम्बूशीतादेवादिभववाञ्छा तथा च कथमस्य तेषामिव प्रायोऽपान्तरालवस्थानं, नीलवत्तुल्याच्चोच्छ्रितोच्छ्रितमहाकुलादेवास्य प्रसूतिश्चम
मन्दरा
ग्रुपमाः स्यात् ॥ २८ ॥ ३५४॥
जहा से नगाण पवरे, सुमहं मंदरे गिरी । नाणोसहिपज्जलिए, एवं०॥ ३९५ ।। > नगानां-पर्वतानां मध्ये प्रवरः, इह पूर्वत्र व निर्धारणे षष्ठी, सुमहान्-अत्युच्चः, मन्दरो गिरिः-मेरुपर्वतः, प्रज्वलिता *
नानौषधयोऽस्मिन्निति प्रज्वलितनानौषधिः, प्राकृतत्वात् पूर्वापरनिपातः, ता ह्यतिशायिन्यः प्रज्वलन्त्य एवासत इति, एवं मेरुवत् ॥८३ ॥ सोऽपि श्रुतमाहात्म्येनात्यन्तस्थिर इति शेषगिरिकल्पापरस्थिरसाध्वपेक्षया प्रवर एव आमपौषध्यादिलब्धिभिः तमस्यपि प्रकाशकश्च स्यात् ॥ २९ ॥ ३५५ ॥
Jain Educati
MANDainelibrary.org
o
For Private & Personal Use Only
nal