________________
-
XXXOXOXOXOXOXOXXX
सूर्य
तिमिर-अन्धकारं विध्वंसयति-अपनयति, तिमिरविध्वंसः, उत्तिष्ठन्-उद्गच्छन् दिवाकरः-सूर्यः, स हि ऊर्ध्व नभोभागमति*क्रामन्नतितेजस्वितां भजते, अवतरंस्तु न तथेत्येवं विशेष्यते ज्वलन्निव ज्वालां मुश्चन्निव तेजसा, सोऽप्यज्ञानतिमिरापहारकः । संयमस्थानेषु विशुद्धविशुद्धतराध्यवसायत उत्सर्पन तपस्तेजसा ज्वलन् इव स्यात् ॥ २४ ॥ ३५० ॥
जहा से उडवई चंदे, नक्खत्तपरिवारिए । पडिपुन्ने पुण्णिमासीए, एवं०॥ ३५१ ॥ __उडूना-नक्षत्राणां पतिः-चन्द्रः, नक्षत्रैरश्चिन्यादिभिरुपलक्षणत्वात् ग्रहैस्ताराभिश्च परिवारः सञ्जातोऽस्येति नक्षत्रपरिवारितः, प्रतिपूर्णः-समस्तकलोपेतः, कदा ?, पौर्णमास्यां, असावपि हि नक्षत्राणामिवानेकसाधूनामधिपतित्वेन प्रतिपूर्णश्च स्यात् ॥ २५ ॥ ३५१ ॥
जहा से सामाइयाण(सामाइयंगाणं पा०), कोट्ठागारे सुरक्खिए । नाणाधण्णपडिप्पुण्णे, एवं०॥ ३५२॥ ___समाजः-समूहस्तं समवयन्तीति सामाजिकाः-समूहवर्त्तयो लोकास्तेषां, कोष्ठा-धान्यपल्ल्यास्तेषां अगारं-गृहं, सुष्टु-प्राहरिकपुरुषव्यापारणादिना रक्षितः-पालितो दस्युमूषकादिभ्यः सुरक्षितः, नानाधान्यादि शालिमुद्गादीनि तैः प्रतिपूर्णो भृतः, सोऽपि सामाजिकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्यैरिवाङ्गोपाङ्गादिभेदैः श्रुतविशेषैः प्रतिपूर्ण एव स्यात् , सुरक्षितश्च प्रवचनाधारतया, यत उक्तं-"जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेह ।” इत्यादि ॥ २६ ॥ ३५२॥
जहा सा दुमाण पवरा, जंबूनाम सुदंसणा । अणाढियस्स देवस्स, एवं०॥ ३५३ ॥
चन्द्राद्युपमा:
Sin dat
For Privale & Personal use only