________________
पलक्षितो, गच्छगुरुकार्यधुराधरणधीरेयतया च जातस्कन्ध इव जातस्कन्धः, अत एव यूथस्य-साध्वादिवृन्दस्याधिपतिःआचार्यपदवीं गतः सन् विराजते ॥ १९ ॥ ३४५॥
जहा से तिक्खदाढे, ओदग्गे दुप्पहंसए । सीहे मिगाण पवरे, एवं०॥ ३४६॥ तीक्ष्णदंष्ट्रः, उदग्रः-उत्कटोऽत एव दुष्प्रधर्ष एव दुष्प्रधर्षकः-अन्यैर्दुरभिभवः, सिंहो मृगाणां-आरण्यप्राणिनां प्रवरो भवति | एवं भवति बहुश्रुतः, अयमपि परपक्षभेत्तृतया तीक्ष्णदंष्ट्राभिरिव नैगमादिनयैः प्रतिभादिगुणोदग्रतया च दुरभिभव इत्यन्यतीर्थानां मृगस्थानीयानां प्रवर एव ॥ २०॥ ३४६ ॥ अपरं
जहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं० ॥ ३४७ ॥ विष्णुः शङ्खचक्रगदाधरः, अप्रतिहतबल:-अस्खलितसामर्थ्यः, अयमर्थः-एकं सहजसामर्थ्यवान् , अन्यच्च तथाविधायुधान्वित इति, योधः-सुभटः, सोऽप्येकं स्वाभाविकप्रतिभाप्रागल्भ्यवान् , अपरं शङ्खचक्रगदाभिरिव सम्यग्ज्ञानदर्शनचारित्रैरुपेत था इति, योध इव योधः कर्मवैरिपराभवं प्रति ॥ २१॥ ३४७॥ अपरं च
जहा से चाउरते, चक्कवट्टी महिड्डिए। चोद्दसरयणाहिवई, एवं०॥ ३४८॥
सिंह विष्णूपमाभ्यां बहुश्रुतस्तवः
Jain Education
anal
For Privale & Personal use only
X
a inelibrary.org