SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ उत्तरा० १४ Jain Education ! रसलम्पटः ६, अक्रोधनः–अपराधिन्यपि क्षमावान् ७, सत्यरतः - सत्यभाषणासक्तः ८, निगमयितुमाह - शिक्षाशील इतीत्यनन्ततरोगुणभागुच्यते, स च बहुश्रुत एव स्यादिति भावः ॥ ४-५ ॥ ३३०-३३१ ॥ युग्मम् । किं चाबहुश्रुतत्वे बहुश्रुतत्वे वाऽविनयो विनयश्च मूलकारणं, न चाविनीतविनीतयोः स्वरूपमविज्ञाय तौ ज्ञातुं शक्याविति यैः स्थानैरविनीत उच्यते यैश्च विनीतस्तान्यभिधातुमाह-तत्र पूर्वमविनीतस्थानान्याह - गाथा ४, अह चोहसहि ठाणेहिं, वट्टमाणो उ संजए । अविणीए बुच्चती सो उ, णिव्वाणं च ण गच्छइ ॥ ३३२ ॥ अभिक्खणं कोही भवइ, पबंधं च पकुव्वइ । मित्तिजमाणो वमति, सुयं लडूण मज्जइ ॥ ३३३ ॥ अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पति । सुप्पियस्सावि मित्तस्स, रहे भासह पावगं ॥ पण्णवाई दुहिले, द्वे लुद्धे अनिग्गहे । असंविभागी अचियत्ते, अविणीपत्ति वुच्चइ ॥ अथेत्युपन्यासे, सुबुव्यत्ययाच्चतुर्दश संख्येषु स्थानेषु वर्त्तमानः - तिष्ठन् तुः पूरणे, संयमः- तपस्वी, अविनीत उच्यते, सत्वित्यविनीतः पुनः किमित्याह - निर्वाणं-मोक्षं च शब्दादिहैव ज्ञानादींश्च न गच्छति न प्राप्नोति, कानि पुनश्चतुर्दश स्थानानीत्याह- अभीक्ष्णं पुनः पुनः, यद्वा क्षणं क्षणं अभि-अभिक्षणं-अनवरतं क्रोधी- क्रोधनो भवति, सनिमित्तमनिमित्तं वा कुप्यनेवास्ते १, प्रबन्धं च प्रक्रमात् कोपस्यैवाविच्छेदात्मकं प्रकुरुते - प्रकर्षेण कुरुते, कुपितः सन् मृदुवाग्भिरपि न शाम्यति यद्वा विकथादिष्वविच्छेदेन प्रवर्त्तनं प्रबन्धस्तं च प्रकुरुते २ मित्रीय्यमाणोऽपि - मित्रं ममायमस्त्वितीष्यमाणोऽपि, अपिर्गम्यः, For Private & Personal Use Only ३३४ ॥ ३३५ ॥ FOXO 1030 अविनीतरथानानि inelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy