________________
॥ अथ एकादशं बहुश्रुतपूजाध्ययनम् ॥
अनन्तराध्ययनेऽप्रमादार्थमनुशासनमुक्तं, तच्च विवेकिनैव भावयितुं शक्यं, विवेकश्च बहुश्रुतपूजात उपजायत इति बहुश्रुतपूजोच्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनं व्याख्यायते
संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुब्बि सुणेह मे ॥ ३२७॥ संयोगाद्विप्रमुक्तस्यानगारस्य-भिक्षोराचरणं-आचारं-उचितक्रियाविनयं, स चेह बहुश्रुतपूजात्मक एव गृह्यते, तस्यैवात्राधिकृतत्वात् तं प्रादुष्करिष्यामि, शेषयोजना प्राग्वत् ॥ १॥ ३२७ ॥
इह बहुश्रुतपूजा प्रकान्ता, सा च न बहुश्रुतखरूपपरिज्ञानं विना कर्तुं शक्या, बहुश्रुतस्वरूपपरिज्ञानं च तद्विपर्ययज्ञाने स्यादिति प्रथममबहुश्रुतस्वरूपमाह
जे यावि होइ निविजे, थद्धे लुद्धे अनिग्गहे। अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ॥ ३२८॥
यः कश्चित् , चापि शब्दौ भिन्नक्रमी उत्तरत्र योक्ष्यते, भवति निर्गतः विद्यायाः-सम्यक्शास्त्रावगमरूपाया निर्विद्याः, अपि* शब्दयोगात् सविद्योऽपि, यः स्तब्ध-अहङ्कारी लुब्धो-रसादिषु गृद्धिमान्, न विद्यते निग्रहः-इन्द्रियनियमात्मकोऽस्येत्यनिग्रहः,
अभीक्ष्णं-पुनःपुनः, उत्-प्राबल्येनासम्बन्धभाषितादिरूपेण लपति-वक्ति उल्लपति, चयोगात् अविनीतश्च, 'यत्तदोर्नित्याभिसम्बन्धात्' सोऽबहुश्रुत उच्यत इति शेषः, सविद्यस्याप्यबहुश्रुतत्वं बाहुश्रुत्यफलाभावात्, एतद्विपरीतश्चार्थाद्वहुश्रुत इति ॥२॥३२८॥
अबहुश्रुतखरूपम्
EXOXXXXXXXXXXXX
XDXOXOX
JainEducation
For Privale & Personal use only
rebra