________________
एवेति पूरणे, ततो धनं-कनकादिद्रव्यं, तस्यौघः-समूहस्तस्य सञ्चयो-राशीकरणं धनौघसञ्चयस्तं च, मा तदिति-मित्रादिकं पुनर्द्वितीयं, पुनर्ग्रहणार्थमिति गम्यते, गवेषय-अन्वेषय, तत्परित्यागात् श्रामण्यमङ्गीकृत्य पुनस्तदभिष्वङ्गवान् मा भूः, त्यक्त हि वान्तोपर्म, तदभिष्वङ्गश्च वान्तापानप्रायः, किन्तु समयमपीत्यादि ॥ ३० ॥ ३१९॥ इत्थं प्रतिबन्धाभावार्धमुक्त्वा दर्शनविशुद्ध्यर्थमिदमाह
ण हु जिणे अज दीसइ, बहुमए दीसइ मग्गदेसिए । संपइ नेआउए पहे, समयं ॥ ३२०॥ नैव जिनः-तीर्थकृत् अद्य-अस्मिन् काले दृश्यते-अवलोक्यते, यद्यपीति गम्यं, तथापि बहुमतः-पन्थाः, स च द्रव्यतो नगरादिमार्गो भावतस्तु सातिशयश्रुतज्ञानदर्शनचारित्रात्मको मुक्तिमार्गः, तत्रेह भावमार्गः परिगृह्यते, अतः स दृश्यते-उपल-IAमोक्षमार्गे मा भ्यते भावप्रधानत्वान्निर्देशस्य मार्गत्वेन अर्थान्मुक्तेर्देशितो-जिनैः कथितो मार्गदेशितः, अयमाशयो-यद्यपि सम्पति जिनो *प्रमादं कृथाः न दृश्यते, तदुपदिष्टस्तु मार्गों दृश्यते, न च एवंविधोऽयमतीन्द्रियार्थदर्शनं जिनं विना संभवतीत्यसंदिग्धचेतसो भाविनो भव्या न प्रमादं विधास्यन्तीत्यतः सम्प्रति-इदानीं मयि सत्यपीति भावो, नैयायिके-निश्चितमुत्याख्यलाभप्रयोजने पथि-मार्गे समयमपि गौतम ! केवलानुत्पत्तितः संशयविधानेन मा प्रमादीः॥ ३१ ॥ ३२० ॥
अत्रैवार्थे पुनरुपदिशन्नाह
अवसोहिय कंटगापहं, ओइन्नोऽसि पहं महालयं । गच्छसि मग्गं विसोहिया, समयं ॥ ३२१ ॥ अवशोध्य-परिहृत्य, आकारोऽलाक्षणिकः कण्टका:-चरकादिकुश्रुतयस्तैराकुलः, पन्थाः कण्टकपथस्तं, ततश्चावतीर्णोऽसि
JainEducation
p onal
For Private & Personal use only