SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ केशाः-शिरसिजाः, उपलक्षणत्वात् लोमानि च, पाण्डुरा एव पाण्डुरकाः भवन्ति, पूर्व जननयनहारिणोऽत्यन्तकृष्णाः सम्प्रति शुक्लतां भजन्ते तव, पुनस्तेशब्दोपादानं भिन्नवाक्यत्वादुपदेशाधिकाराच्चादुष्टमेवमुत्तरत्रापि, से इति तत् , यत् प्रथममासीत् श्रोत्रयोः-कर्णयोबलं-दूरादिश्रवणसामर्थ्य, चः समुच्चये, हीयते-जरातः क्षयमुपयाति, यद्वा शरीरजीर्णतावस्थाभावि एतद् द्वयमपि योज्यं, यथा परिजीर्यति ते शरीरकं, तथा च सति केशाः पाण्डुरका भवन्ति ते, से इत्यथ श्रोत्रबलं च हीयते यत. स्ततः शरीरस्य तत्सामर्थ्यस्य चास्थिरत्वात्समयमपीत्यादि प्रागवत्, एवं सूत्रपञ्चकमपि ज्ञेयं, नवरमिह पूर्व श्रोत्रोपादानं प्रधानत्वात् , प्रधानत्वं च तद्भावे शेषेन्द्रियाणामवश्यंभावात् पटुतरक्षयोपशमजत्वाच्च, तथोपदेशाधिकारादुपदेशस्य च श्रोत्रग्राह्यत्वात् , तथा सर्वबलमिति, सर्वेषां करचरणाद्यवयवानां स्वस्वव्यापारसामर्थ्य हीयत इति सूत्रपदकार्थः ॥२१-२६॥ ॥ ३१०-३१५॥ एवं जरातः शरीराशक्तिरुक्ता, अधुना रोगतस्तामाह अरई गंडं विसूईया, आयंका विविहा फुसति ते । विहडइ विद्धंसइ ते सरीरयं, समयं ॥ ३१६॥ अरतिः वातादिजनितश्चित्तोद्वेगः, गण्डं-गण्डुः, विषूचिका-अजीर्णविशेषः, आतङ्काः-सद्योविघातिनो रोगविशेषाः, विविधाःअनेकप्रकाराः, स्पृशन्ति-परामृशन्ति, तव शरीरकमिति गम्यं, ततश्च विपतति-विशेषेण बलोपचयादपैति विध्वस्यतिजीवमुक्तं विशेषेणाधःपतति तव शरीरकं, अतः समयमिति, केशपाण्डुरत्वादि च यद्यपि गौतमे न संभवति, तथापि तन्निश्रयाशेषशिष्यप्रतिबोधनार्थत्वाददुष्टमेव, यदुक्तं-"तन्निस्साए भयवं सीसाणं देइ अणुसिटिं" (उ०नि०३०६)॥२७॥३१६॥ शरीर रोगप्रस्तमतोमा प्रमादी Jain Educatio sitional For Private & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy