SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ धम्म पि हु सद्दहंतया, दुल्लभया कारण फासया। इह कामगुणेहि(सु पा०) मुच्छिया, समयं०॥३०९॥ लद्धणेत्यादि गाथापञ्चकं, लब्ध्वापि-प्राप्यापि मानुषत्वं आर्यत्वं-मगधाचार्यदेशोत्पत्तिलक्षणं, पुनरपि-भूयोऽपि, आकारोऽलाक्षणिकः, दुर्लभ-दुरापं, किमित्यत्र आह-बहवः-प्रभूताः दस्यवो-देशप्रत्यन्तवासिनश्चौराः, म्लेच्छा-अव्यक्तवाचो, न यदुक्तमार्यैरवधार्यते, ते च शकयवनशबरादिदेशोद्भवाः सर्वे च धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिसकलार्थव्यवहारबहिष्कृतास्तिर्यक् प्राया एव, नरत्वमवाप्यापि येषु बहवो जन्तव उत्पद्यन्ते, अतः समयमपि इत्यादि योज्यम् ॥१६॥ इत्थमार्यत्वमपि दुर्लभं तथाविधमपि लब्ध्वापि आर्यत्वं अहीनपञ्चेन्द्रियता, हुः-अवधारणे, मिन्नक्रमश्च, दुर्लभा एव, यद्वा हुः-पुनरर्थे, ततोऽहीनपञ्चेन्द्रियता पुनर्दुर्लभा, इहैव हेतुमाह-विकलेन्द्रियता-रोगादिमिरुपहतेन्द्रियता, निपातानामनेकार्थतया | हुः-बाहुल्यसूचकः, ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते-ततो दुर्लभैवाहीनपश्चेन्द्रियता, तथा समयमित्यादि ॥ १७ ॥ तथा कथञ्चित्___ अहीनपञ्चेन्द्रियत्वमपि स जन्तुर्लभेत, तथापि उत्तमधर्मश्रुतिः अवधारणार्थस्य हो:-भिन्नक्रमत्वात् दुर्लभैव, किमिति !, यतः शाक्यादि कुतीर्थिनिषेवको जनः, कुतीर्थिनो हि यशःसत्काराद्येषिणो यदेव प्राणिप्रियं विषयादि तदेवोपदिशन्तीति सुकरैव तेषां सेवा, तत्सेवनाच्च कुत उत्तमधर्मश्रुतिः१, एवं दुर्लभत्वमवधार्य, समयमपीत्यादि प्राग्वत् ॥ १८॥ उत्तरोत्तरगुणावाप्तिर्दुरापाऽतो मा प्रमादी लब्ध्वापि उत्तमां श्रुति-उत्तमधर्मश्रवणात्मिका, श्रद्धानं-तत्त्वरुचिरूपं, पुनरपि दुर्लभं, इह हेतुमाह-मिथ्यात्वं-अतत्त्वेऽपि Jain Education anal For Private & Personal use only Maulainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy