________________
तथा दुष्टोऽन्तोऽस्येति दुरन्तस्तं, इदमपि साधारणापेक्षयैव, ते ह्यत्यन्ताल्पबोधतया तत उद्धृत्ता अपि न प्रायो विशिष्टं नरादिभवं लभन्ते, इह चानन्तमित्यनन्तोत्सर्पिण्यवसर्पिणीमानमवगन्तव्यम् ॥९॥२९८ ॥
बेइंदियकायमइगओ, उक्कोसं० । कालं संखिज्जसण्णिय, समयं०॥ २९९ ॥
तेइंदियकायमइगओ, उक्कोसं० । कालं०॥ ३०॥
__ चउरिंदियकायमइगओ, उक्कोसं० । कालं० ॥ ३०१॥ द्वे-द्विसंख्ये इन्द्रिये स्पर्शनरसनाख्ये स्तः, येषां ते द्वीन्द्रियाः-कृम्यादयस्तत्कायमतिगतः, शिष्टं स्पष्टं, नवरं कालं |संख्येयसंज्ञितं-संख्यातवर्षसहस्रात्मकं, एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे ॥१०,११,१२ ॥ २९९-३००-३०१॥
*द्वीन्द्रियापंचिंदियकायमइगओ, उकोसं० । सत्तट्ठभवग्गहणे, समय० ॥ ३०२॥
दीनां स्वकायतथा पञ्च इन्द्रियाणि-स्पर्शनादीनि विद्यन्ते येषां ते पञ्चेन्द्रियाः, ते चोत्तरत्र देवनारकयोरभिधानान्मनुष्यत्वस्य तत्र दुर्लभत्वेन प्रक्रान्तत्वात् तिर्यश्च एव गृह्यन्ते, तत्कायमतिगतः-तत्कायोत्पन्नः, उत्कर्षतो जीवस्तु संवसेत् , सप्त वा अष्ट वा. सप्ताष्टानि च तानि भवग्रहणानि च-जन्मोपादानानि सप्ताष्टभवग्रहणानि ॥ १३ ॥ ३०२॥
देवे णेरइए य अइगओ, उक्कोसं० । एकेकभवग्गहणे, समयं० ॥ ३०३ ॥ देवान् नैरयिकांश्च अतिगतः एकैकभवग्रहणं, ततः परमवश्यं नरेषु तिर्यक्षु वोत्पादात्, यद्वा उत्कृष्यते तदन्येभ्य
स्थितिः
उत्तरा०१३
Jain Education ind
i
al
For Privale & Personal use only
bayong