________________
पुनरायुषोऽनित्यत्वमाहकुसग्गे जह ओसबिंदुए, थोवं चिट्ठति लंबमाणए । एवं मणुयाण जीवियं, समयं गोयम! मा पमायए ॥ २९१॥
कुशाग्रे यथेत्युपमा प्रदर्शकः अवश्यायबिन्दुकः-शरत्काल सूक्ष्मवर्षः, स्तोक-अल्पं, कालमिति गम्यं, तिष्ठति लम्बमानको-मनाम् निपतन, एवमुक्तसदृशं मनुजानां जीवितं, अतः समयमपि गौतम! मा प्रमादीः! ॥२॥२९॥ इइ इत्तरियमि आउए, जीवितए (एवं मणुयाण जीविए, एत्तिरिए पा०) बहुपचवायए।
विहुणाहि रयं पुराकडं, समयं ॥ २९२॥ इति-उक्तन्यायेन इत्वरे-स्वल्पकालभाविनि, एत्युपक्रमहेतुमिरनपवर्त्यतया यथास्थित्यैवानुभवनीयतां गच्छतीत्यायुस्तश्चैवं निरुपक्रममेव तस्मिन् , तथा चस्य गम्यमानत्वात् जीवितके, वार्थात् सोपक्रमायुषि, बहवः-प्रभूताः प्रत्यपाया-उपघातहेतवोऽध्यवसानादयो यसिन् तसिन , एवमुक्तरूपद्रुमपत्रोदाहरणात्, कुशाग्रजलबिन्दूदाहरणतश्च मनुजायुर्निरुपक्रम सोपक्रम चेत्वरमतोऽस्यानित्यतां मत्वा, विधुनीहि-जीवात् पृथक्कुरु, रजः-कर्म, पुराकृतं-पूर्वोपार्जितं, तद्विधुवनोपायमाह-समयमित्यादि ॥ ३॥ २९२ ॥ स्यात्-पुनः मनुष्यभवावाप्ती उद्यस्याम इत्याह
दुल्लहे खलु माणुसे भवे, चिरकालेणवि सव्वपाणिणं । गाढा य विवाग कम्मुणो, समयं०॥ २९३ ॥ दुर्लभो-दुरवापः, खलुर्विशेषणे, अकृतसुकृतानामिति विशेषणं द्योतयति, मानुषो भवो-नृसम्बन्धिजन्म, चिरकालेनापि
| आयुषोऽ| नित्यत्वमतो मा प्रमादीः
Jain Education
For Privale & Personal use only
NIEininelibrary.org