SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ ७१ ॥ Jain Education अणुसिट्ठि” मिति ( उ० नि० ३०६ ), अत्र पाण्डुरकपदाक्षितं यौवनस्याप्यनित्यत्वं, यदाह निर्युक्तिकृत् - " परि अट्टियलावणं चलंतसंधिं मुयंतबिंटागं । पत्तं च वसणपत्तं कालप्पत्तं भणइ गाहं ॥ १ ॥ जह तुम्हे तह अम्हे तुम्भेऽवि य होहिहा जहा अम्हे । अप्पा पडतं पंडुरपत्तं किसलयाणं ॥ २ ॥ नवि अत्थि नवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया भवियजण विबोहणट्टाए ॥ ३ ॥” ( उ० नि० ३०७ - ९), गाथात्रयस्य व्याख्या-परिवर्तितं-कालपरिणत्या अन्यथा कृतं लावण्यं -अमिरामगुणात्मकमस्येति, यतो न तस्य प्रागिव सौकुमार्याद्यस्ति, तथा चलन्तः- शिथिलीभवन्तः, सन्धयो यस्मिन् तत्, अत एव मुञ्चत्-त्यजत्, सामर्थ्याद् द्रुमं वृन्तं - पत्रबन्धनं यस्य तन्मुश्चद्वृन्तकं वृन्तस्य वृक्षमोचने पत्रस्य पतनमेव स्यादिति, पत्र - पर्ण व्यसनं - आपदं प्राप्तं, तथा कालः- प्रक्रमात् पतनसमयस्तं गतं, भणति - अभिधत्ते गाथां ॥ १ ॥ यथेति सादृश्ये, ततो यथा यूयं किशलय भावमनुभवन्ति-स्निग्धा दिगुणैर्गर्वमुद्वहंन्त्यस्मानुपहसथ, तथा वयमपि तदशायां तथा यूयमपि च भविष्यथ, यथा वयमिति जीर्णभावे हि यथा वयमिदानीं विवर्णविच्छायतयोपहास्यानि एवं यूयमपि भावीनि, अप्पा हेति - उपदिशति उक्तरीत्या, पितेव पुत्रस्येति, पतत्पाण्डुरपत्रं - जीर्णपत्रं, किसलयानां - नवपत्राणाम् ॥ २ ॥ ननु किमेवं पत्रकिसलयानामुल्लापः स्याद्येनेदमुच्यते ?, अतआह- नैवास्ति नैव च भविष्यति, उपलक्षणान्नैव भूतः कोऽसौ ? उल्लापो वचनं, केषां ?, किसलयानां पाण्डुपत्राणां, तत्किमेवमुक्तमित्याह - उपमैव एषा पूर्वोक्ता कृता, शेषं सुगमं ॥ ३ ॥ यथा - किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तद्वदन्योऽपि यौवनगर्वितोऽनुशासनीयः, तथा चानूक्तं वाचकेन - " परिभवसि किमिति लोकं, जरया परिजर्जरीकृतशरीरम् । अचिरात्त्वमपि भविष्यसि, यौवनगर्व किमुद्वहसि १ ॥ १ ॥ ॥ १ ॥ २९० ॥ For Private & Personal Use Only XCXCXCXCXCXCXXXXXCXX द्रुमपत्रका ध्ययनम् १० पत्र किसलया नामुल्लापः ॥ ७१ ॥ Minelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy