________________
॥ अथ दशमं द्रुमपत्रकाध्ययनम् ॥
पाण्डुपलाशव
अनन्तराध्ययने चरणं प्रति निष्प्रकम्पत्वमुक्तं, तच्चानुशासनादेव प्रायो भवति, न च तदुपमा विना स्पष्टमित्यादित उपमाद्वारेणानुशासनाभिधायकमिदमारभ्यते, अस्य च दुमपत्रकमिति नाम, अनेन चाध्ययनेन श्रीपीरखामी श्रीगोतमनिश्रया सर्वानपि | शिष्यान् अन्वशिषत्| दुमपत्तए पंडुरए जहा, निवडइ राइगणाण अच्चए । एवं मणुयाण जीवियं, समयं गोयम! मा पमायए ॥ २९ ॥
दुमो-वृक्षस्तस्य पत्रं-पलाश, दुमपत्रमेव तथाविधावस्थाप्राप्याऽनुकम्पितं दुमपत्रक आर्षत्वात् पाण्डुलकं कालपरिमाणतस्तथाविधरोगादेर्वा प्राप्तवलक्षभावं, यथा-येन प्रकारेण निपतति शिथिलवृन्तवन्धनत्वात् भ्रश्यति, प्रक्रमात् द्रुमात्, रात्रिगणानां-दिनाविनाभावित्वादुपलक्षणत्वाद्वा रात्रिन्दिनसमूहानां अत्यये-अतिक्रमे, एवमित्येवंप्रकारं मनुष्याणां, शेषजीवोपलक्षणं
चैतत्, जीवितं-आयुः, तदपि हि रात्रिगणदिनगणात्यये यथास्थित्या स्थितिखण्डापहारात्मकेनाध्यवसायादिजनितेनोपक्रमणेन * वा जीवप्रदेशेभ्यो भ्रश्यतीत्युच्यते, यतश्चैवं ततोऽपेर्गम्यत्वात् समयमपि, आस्तामावलिकादि, हे गौतम-इन्द्रभूते !, मा
प्रमादी:-मा प्रमादं कृथाः, शेषशिष्योपलक्षणं च गौतमग्रहणं, उक्तं हि नियुक्तिकृता-"तन्निस्साए भयवं सीसाणं देइ
जीवितम्
Jain Education
a
nal
For Privale & Personal use only
VAlinelibrary.org