________________
उत्तरा अचूर्णिः ॥१९॥
नमिप्रव्रज्याध्ययनम् ९
XXOXOXOXOXOXOXoxoxoxoxo
तद्यथाअहो इति विस्मये, ते-त्वया निर्जितः-अभिभूतः, क्रोधः, यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न क्षुभित इत्यर्थः, अहो ते-त्वया मानः पराजितः, यतस्त्वं मन्दिरं दह्यते इत्याधुक्तोऽपि कथं मयि जीवतीदमिति नाहंकृतिं कृतवान्, अहो त्वया प्राकृतत्वात् निराकृता-अपास्ता माया, यतस्त्वं पुररक्षाहेतुषु प्राकाराट्टालकोच्छूलकादिषु निकृतिहेतुषु आमोषोत्सादनादिषु न मनो निहितवान् , अहो त्वया लोभो वशीकृतो-नियन्त्रितः, यतस्त्वं हिरण्यादि वर्द्धयित्वा गच्छेत्युक्तोऽपि इच्छाया आकाशसमत्वमेवोदाहृतवान् ॥ ५६ ॥ २८३ ॥
अत एव अहो ते-तव आर्जवं-ऋजुत्वं साधु-शोभनं, तव साधुमार्दवं-मृदुत्वं, तव उत्तमा क्षान्तिः, तब मुक्तिः-निर्लोभता उत्तमा-प्रधाना, व्यत्ययनिर्देशस्तु अनानुपूर्व्यपि व्याख्याङ्गमिति कृत्वा ॥ ५७ ॥ २८४॥
इत्थं गुणोपवर्णनद्वारेणाभिष्टुत्याधुना फलोपदर्शनद्वारेण स्तुवन्नाहइहंऽसि उत्तमो भंते !, पेचा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ॥ २८५ ॥ इह-अस्मिन् जन्मनि असि-भवसि उत्तमः गुणान्वितत्वात् भदन्त-पूज्य, प्रेत्य परलोके भविष्यसि, कथमित्याह-मोऽला| क्षणिकः ततो लोकस्य लोके वा, उत्तमोत्तम-अतिशयप्रधानं, स्थानं, किं तदित्याह-सिद्धिं-मुक्तिं, सूत्रत्वात् गमिष्यसि नीरजानिष्कर्मा ॥ ५८ ॥२८५॥
फलमुखा देवेन्द्रस्तुतिः
XXXXOXOXOXOXOXO)
JainEducationalitiendmonal
For Private & Personal Use Only