________________
XXX-XOXOXOXOXOKEKOK
कथं पुनः कामान् प्रार्थयमाना दुर्गतिं यान्तीति !, आह__ अहे वयइ कोहेणं, मागेणं अहमा गई । माया गइपडिग्घाओ, लोहाओ दुहओ भयं ॥ २८१ ॥ __ अधो-नरकगतौ व्रजति-गच्छति क्रोधेन-कोपेन, मानेन, अधमा-नीचा गतिः, स्यादिति शेषः, स्यादित्यव्ययात्, मायया, गतेः-प्रस्तावात् सद्गतेः प्रतिघातो-विनाशः गतिप्रतिघातः, लोभाद्-गायलक्षणात्, द्विधा-द्विप्रकार-ऐहिकं पारत्रिकं च, भयं-दुःखं, स्यादिति सर्वत्र गम्यं, कामेषु हि प्रार्थ्यमानेषु अवश्यभाविनः क्रोधादयः, ते चेदृशास्ततः कथं तत्प्रार्थनातो न दुर्गतिगमनमिति भावः, यद्वा सर्वमपि यदिन्द्रेणोक्तं तत् कषायानुपातीति तद्विपाकानुवर्णनमिदमिति ॥ ५४ ॥ २८१ ॥
एवं बहुभिरप्युपायैस्तं क्षोभयितुमशक्तः शक्रः किमकरोदित्याहअवउज्झिऊण माहणरूवं विउरूविऊण इंदत्तं । वंदइ अभित्थुणंतो इमाहि महुराहि वग्गूहिं ॥ २८२ ॥ अहो ! तेणिजिओकोहो, अहो! माणो पराइओ। अहो! ते णिरकिया माया, अहो! लोभोवसीकओ॥२८॥ अहो! ते अजवं साहू, अहो ! ते साहु ! मद्दवं । अहो! ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ॥ २८४ ॥ अव इत्यादिगाथात्रय, अपोह्य-त्यक्त्वा, ब्राह्मणरूपं-धिग्वर्णवेष, विकृत्य, इन्द्रत्वं-उत्तरवैक्रियरूपमिन्द्रभावं, वन्दते अनेकार्थत्वात् प्रणमति अभिष्ट्रवन्-स्तुतिं कुर्वन् , आभिरनन्तरं वक्ष्यमाणाभिः मधुराभिः-श्रुतिसुखाभिः, आर्षत्वात् वाग्भिःवाणीभिः ॥ ५५ ॥ २८२ ॥
प्रत्यक्षभाव: स्तुतिश्च
JainEducation inma
nal
For Privale & Personal use only
A
hmelibrary.org