________________
XXXXXXXXXXXXX
नरस्य-पुरुषस्योपलक्षणत्वात् स्त्रियाः पण्डकस्य वा, लुब्धस्य न तैः कैलाससमैरसंख्यैरपि सुवर्णरूप्यपर्वतैः किश्चिदपि, अल्पमपि परितोषोत्पादनं क्रियते इति शेषः, कुतः पुनरिदमित्याह-इच्छा-अभिलाषः, हुः-यस्मात् आकाशेन समा अनन्तिका-अन्तरहिता ॥ ४७-४८ ॥२७४-२७५ ॥ ____किं सुवर्णरूप्य एव केवलं नेच्छापरिपूर्तये इत्याशझ्याह
पृथ्वी-मही, शालयो-लोहितशाल्यादयः, यवाः प्रतीताः, चः शेषधान्यसमुच्चयार्थः, एवोऽवधारणे भिन्नक्रमश्च नेत्यस्यानन्तरं योक्ष्यते, हिरण्यं-सुवर्ण, ताम्राग्रुपलक्षणमेतत् , पशुभिः-गवाश्वादिभिः सह-सार्द्ध प्रतिपूर्ण-समस्तं नैव अलं-समर्थ, प्रक्रमादिच्छापूर्तये, एकस्य जन्तोरिति गम्यं, इति-एतत्पूर्वोक्तं विदित्वा, यद्वा इति अस्माद्धेतोः विद्वान् तपो द्वादशधाः चरेत्
आसेवेत, तत एव निःस्पृहतया इच्छापरिपूर्तिसम्भवादिति भावः, अनेन च सन्तोष एव निराकासतायां हेतुः न हिरण्यादिवर्द्धन| मिति, तथा च त्वदुक्तः साकाङ्क्षवलक्षणो हेतुरसिद्धो, न चाकाङ्क्षणीयवस्त्वपरिपूर्तेस्तस्य सिद्धत्वं, सन्तुष्टतया ममाकाङ्क्षणीयव- | स्तुन एवाभावादिति ॥४९॥ २७६ ॥ ' असत्सु विषयेषु निवृत्तोऽयमिति निश्चित्य सत्सु तेष्वभिष्वङ्गोऽस्ति न वेति विवेचयितुमाह
___ एयमहूँ निसामित्ता, हेऊकारणचोइओ। तओ णमि रायरिसिं, देविंदो इणमब्बची ॥२७॥ अच्छेरयमन्भुदए, भोए जहित्तु पत्थिवा(चयसि खत्तिया पा०)। असंते कामे पत्थेसि,संकप्पेण विहम्मसि॥२७८॥
इच्छानामानन्त्यान्निरीहत्वमेव श्रेयः
Jain Education
a
l
For Privale & Personal use only
ainelibrary.org