________________
जनाभीष्टं, प्रार्थयसे-अभिलपसे, आश्रमं प्रव्रज्यारूपं, नेदं क्लीवाचरितं भवादृशामुचितमित्यभिप्रायः, तर्हि किमुचितमित्याहइहैव-अस्मिन्नेव, गृहाश्रमे स्थित इति गम्यं, पौषधं-अष्टम्यादितिथिषु व्रतविशेषस्तत्र रतः-आसक्तः पौषधरतो भव, अणुव्रताधुपलक्षणं चैतत् , अस्यैव चोपादानं पौषधदिनेऽवश्यं तपोऽनुष्ठानलक्षणख्यापकं, हे मनुजाधिप!, अत्र च घोरपदेन हेतुराक्षिप्तः, तथा हि-यद्यद् घोरं तत्तद्धर्मार्थिना अनुष्ठेयं, यथाऽनशनादि, तथा चायं गृहाश्रम इत्यादि सूचितम् ॥४१,४२॥२६८,२६९॥
एयमढ निसामित्ता, हेऊकारणचोइओ। तओ णमी रायरिसी, देविंदं इणमब्बवी ॥२७॥ |मासे मासे उ जो बालो, कुसग्गेणं तु भुंजइ । न सो सुक्खा(प्र० यक्खायधम्मस्स, कलं अग्घइ सोलसिं ॥२७॥ __ इहोत्तरत्र चतुः एवकारार्थः, ततो मासे मासे एव, न तु एकस्मिन्नेव मासे अर्द्धमासादौ वा, यः कश्चित् बाल:-अविवेकः कुशाग्रेणैव-तृणविशेषप्रान्तेनैव भुते, न तु कराङ्गुल्यादिना, तृतीया तु ओदनेनासौ भुते इतिवत् साधकतमत्वेन विवक्षितत्वात् , यद्वा कुशाग्रेणेति यावत् कुशाग्रे अवतिष्ठते तावदेव भुते, न त्वधिक, नेति निषेधे, स एवंविधकष्टानुष्ठायी, सुष्टु-शोभनः सर्वसावद्यविरतिरूपत्वादाख्यातो जिनैः स्वाख्यातो धर्मो यस्य स तथा तस्य, चारित्रिण इत्यर्थः, कलां-भागं अर्घति-अर्हति षोडशी, कोऽर्थः?, षोडशांशसमोऽपि न स्यात् किं पुनः तुल्योऽधिको वेति, ततो यदुक्तं यद्यद्धोरं तत्तद्धार्थना अनुष्ठेयमनशनादिवदित्यत्र घोरत्वात् इत्यनैकान्तको हेतुः, घोरस्यापि स्वाख्यातधर्मस्यैव धर्मार्थिना अनुष्ठेयत्वात् , अन्यत्तु आत्मविघातादिवदन्यथात्वात् , प्रयोगश्चात्र यत् स्वाख्यातधर्मरूपं न भवति न तद्धोरमपि धर्थिना अनुष्ठेयं, यथाऽऽत्मवधादि तथा च गृहाश्रमः, तद्रूपत्वं चास्य सावद्यत्वात् , हिंसादिवदिति ॥ ४३-४४ ॥ २७०-२७१॥
गृहाश्रमः चारित्रिणः षोडशांशसमोऽपि न
उत्तरा०१२
Jain Education
air
a
For Privale & Personal use only
l
library