SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Ko तत्रैवमधिनिष्क्रामति यदभूत्तदाहकोलाहलगभूतं आसी मिहिलाए पव्वयंतंमि। तइआ रायरिसिम्मि नमिम्मि अभिनिक्खमंतंमि ॥ २३२ ॥ कोलाहलो-विलपिताक्रन्दितादिकलकलः स एव कोलाहलकः सम्भूतो-जातो यस्मिंस्तत् कोलाहलकभूतं, आसीत्-अभूत् , मिथिलायाः सर्व गृहविहारादीति प्रक्रमः, तदा प्रव्रजति काले राज्यावस्थायामपि च ऋषिरिव ऋषिः क्रोधादिषड्वर्गजयाद् राजर्षिः तस्मिन् नमौ निष्कामति-गृहादिभ्यो निर्गच्छति ॥५॥२३२॥ पुनरत्रान्तरे यदभूत्तदाह___अन्भुट्टियं रायरिसिं, पव्वजाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ॥ २३३ ॥ अभ्युद्यतं-अभ्युत्थितं राजा प्रव्रज्यैव स्थान-आश्रयो ज्ञानादिगुणानां, तत्प्रति अनिष्क्रमणायेति शेषः, उत्तम प्रधानं, शक्रः-इन्द्रो माहनरूपेण-ब्राह्मणवेषेणेति गम्यं, तदाशयं परीक्षितुकामः, इमं वक्ष्यमाणं वचनं अब्रवीत् ॥ ६ ॥ २३३॥ यदुक्तवांस्तदाह किं नु भो! अज मिहिलाए, कोलाहलगसंकुला। सुचंति दारुणा सद्दा, पासाएसु गिहेसु अ? ॥ २३४ ॥ । किं प्रश्ने, नु इति वितर्के, भो-आमन्त्रणे, अथ मिथिलायां कोलाहलेन संकुलाः-व्याकुलाः श्रूयन्ते दारयन्ति जनमनांसीति दारुणाः, विलपिताः ऋन्दितादयः शब्दाः प्रासादेषु-देवतानृपभवनादिषु गृहेषु-तदितरेषु चशब्दात् त्रिकचतुष्कचत्वरादिषु चेति ॥७॥ २३४ ॥ प्रव्रज्याकालेमिथिलाकोलाहलः शक्रपरीक्षाप्रारम्भश्च Jain Education Lonal For Privale & Personal use only 4 jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy