SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ *OXXXOXOXOXOXOXOXOXOXoxox इत्यादि, स्वप्नं च गजारोहादि, अङ्गविद्यां "सिरफुरणे किर रज" मित्यादिकां, चशब्दः सर्वत्र वाथै, ये प्रयुञ्जन्ते, पुनः ये इत्युपादानं लक्षणादिभिः पृथग सम्बन्धसूचनार्थ, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जन्ते किमित्याह-नैव ते एवंविधाः श्रमणा उच्यन्ते, पुष्टालम्बनं विना एतद् व्यापाराणामेवमुच्यते, अन्यथा करवीरलताभ्रामकतपस्विनोऽप्येवंविधत्वापत्तेः, एवमार्यैराचार्यैर्वा आख्यातम् ॥ १३ ॥ २२० ॥ ते चैवंविधा यदाप्नुवन्ति तदाहइह जीविअं अनियमेत्ता पन्भट्ठा समाहिजोगेहिं । ते कामभोगरसगिद्धा उववजंति आसुरे काए॥२२१॥ इह जन्मनि जीवितं, असंयमजीवितमनियततपोविधानादिना अनियत्र्य प्रभ्रष्टाः-च्युताः समाधिः-चित्तस्वास्थ्य तत्प्रधाना योगाः शुभमनोवाक्कायव्यापारास्तेभ्यः, ते अनन्तरोक्ता कामभोगविषयरसाः शृङ्गारमधुरादयो वा तेषु गृद्धाः-अभिकांक्षावन्तः, कामभोगान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिरसगृद्धिं ख्यापकं, उपपद्यन्ते-जायन्ते आसुरे-असुरनिकाये, अयमर्थः-एवं| विधाः किञ्चिदनुष्ठानं कुर्वन्तोऽप्यसुरेष्वेवोत्पद्यन्ते ॥ १४ ॥ २२१॥ ___ ततोऽपि च्युतास्ते किमाप्नुवन्तीत्याह तत्तो विय उवत्तिा संसारं बहुं अणुपरिय(परियडं प्र०)ति । बहुकम्मलेवलित्ताणं बोही होइ(जत्थ पा०)सुदुल्लहा तेसिं ॥२२२ ॥ ततोऽपि च-असुरनिकायादुद्धत्य संसार-चतुर्गतिरूपं बहु-विपुलं सातत्येन पर्यटन्तीत्यर्थः, किंच-बहुकर्मलेपलिप्तानां बोधिः लक्षणादिप्रयोजका| नामसाधुत्वं दुर्गतिर्बोधिदुर्लभता च Jain Educa t ional For Private & Personal use only oilaw.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy